________________ श्रीआचाराङ्गं नियुक्तिश्रीशीला० वृत्तियुतम् श्रुतस्कन्धः१ // 502 // श्रुतस्कन्ध:१ अष्टममध्ययन विमोक्षम्, अष्टमोद्देशक: सूत्रम् (अनुष्टुप्) 21-24 आनुपूर्वाविहारादिः विपुट्ठवं॥सू०गा०२४॥ रागद्वेषयोर्मध्ये तिष्ठतीति मध्यस्थः, यदिवा जीवितमरणयोर्निराकाङ्कतया मध्यस्थो निर्जरामपेक्षितुंशीलमस्येति निर्जरापेक्षी, स एवंभूतः समाधि- मरणसमाधिमनुपालयेत्- जीवितमरणाशंसारहित: कालपर्यायेण यन्मरणमापद्यते तत् समाधिस्थोऽनुपालयेदिति भावः / अन्तः कषायान् बहिरपि शरीरोपकरणादिकं व्युत्सृज्यात्मन्यध्यध्यात्म- अन्त:करणं तच्छुद्धं सकलद्वन्द्वोपरमाद्विस्त्रोतसिकारहितमन्वेषयेत्- प्रार्थयेदिति // 21 // किं च-उपक्रमणमुपक्रमः- उपायस्तं यं कञ्चन जानीत, कस्योपक्रमः? - आयु:क्षेमस्य आयुषः क्षेमं- सम्यक्पालनं तस्य, कस्य सम्बन्धि तदायुः?- आत्मनः, एतदुक्तं भवतिआत्मायुषो यं क्षेमप्रतिपालनोपायं जानीत तं क्षिप्रमेव शिक्षेत्- व्यापारयेत् पण्डितो- बुद्धिमान्, तस्यैव संलेखनाकालस्य अन्तरद्धाए त्ति अन्तरकालेऽर्द्धसंलिखित एव देहे देही यदि कश्चित् वातादिक्षोभात् आतङ्क आशुजीवितापहारी स्यात् तत: समाधिमरणमभिकासन् तदुपशमोपायमेषणीयविधिनाऽभ्यङ्गादिकं विदध्यात्, पुनरपि संलिखेत्, यदिवाऽऽत्मन: आयु:क्षेमस्य-जीवितस्य यत्किमप्युपक्रमणं-आयुः पुद्गलानां संवर्त्तनं समुपस्थितं तज्जानीत, ततस्तस्यैव संलेखनाकालस्य मध्येऽव्याकुलितमति: क्षिप्रमेव भक्तपरिज्ञानादिकं शिक्षेत- आसेवेत पण्डितो-बुद्धिमानिति ॥२२॥संलेखनाशुद्धकायश्चमरणकालं समुपस्थितं ज्ञात्वा किं कुर्यादित्याह- ग्राम:- प्रतीतो, ग्रामशब्देन चात्र प्रतिश्रय उपलक्षितः, प्रतिश्रय एव स्थण्डिलंसंस्तारकभुवंप्रत्युपेक्ष्य, तथा अरण्ये वेत्यनेन चोपाश्रयाहिरित्येतदुपलक्षितम्, उद्याने गिरिगुहायामरण्ये वा स्थण्डिलं प्रत्युपेक्ष्य विज्ञाय चाल्पप्राणं- प्राणिरहितम्, ग्रामादियाचितानि प्रासुकानि दर्भादिमयानि तृणानि संस्तरेत् मुनिः यथोचितकालस्य वेत्तेति // 23 // संस्तीर्य च तृणानि यत्कुर्यात्तदाह- न विद्यते आहारोऽस्येत्यनाहारः तत्र यथाशक्ति यथासमाधानं च त्रिविधं