Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 549
________________ आगम (४२) प्रत सूत्रांक [१] दीप अनुक्रम [५०६ ] Education in “दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) चूलिका [१], मूलं [१], / गाथा ||- || निर्युक्तिः [३६७...], भाष्यं [ ६२...] गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७ | तथा 'दुर्लभः खलु भो ! गृहिणां धर्म' इति प्रमाद बहुलत्वादुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह - 'गृहपाशमध्ये वसता' मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम् एतचिन्तनीयमित्यष्टमं स्थानं ८ । तथा 'आतइस्तस्य बधाय भवति' 'आतङ्कः' सयोघाती विषूचिकादिरोगः 'तस्य' गृहिणो धर्मबन्धुरहितस्य 'वधाय' विनाशाय भवति, तथा वधवानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानं ९ । तथा 'संकल्पस्तस्य वधाय भ वति' 'संकल्प' इष्टानिष्टवियोगप्रासिजो मानस आतङ्कः, 'तस्य' गृहिणस्तथा चेष्टायोगान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्रासेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं १० । तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः सोपक्लेशो ग्रहिवासो-गृहाश्रमः, उपक्लेशाः कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा 'निरुपक्लेशः पर्याय' इति, एभिरेवोपक्लेश रहितः प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । तथा 'बन्धो गृहवासः' सदा तद्धेखनुष्ठानात्, कोशकारकीटवदिति, एतचिन्तनीयमिति त्रयोदशं स्थानं १३ । तथा 'मोक्षः पर्यायः' अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् १४ । अत एव 'सावधो गृहवास' इति सावयः - सपापः प्राणातिपातमृषावादादि मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः ~ 548~

Loading...

Page Navigation
1 ... 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577