________________
आगम
(४२)
प्रत
सूत्रांक
[१]
दीप
अनुक्रम
[५०६ ]
Education in
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) चूलिका [१], मूलं [१], / गाथा ||- || निर्युक्तिः [३६७...], भाष्यं [ ६२...]
गृह्यते, तस्योपसंपत्-सामीप्येनाङ्गीकरणं यदेतदुत्प्रव्रजनम्, एवं चिन्तनीयमिति सप्तमं स्थानं ७ | तथा 'दुर्लभः खलु भो ! गृहिणां धर्म' इति प्रमाद बहुलत्वादुर्लभ एव 'भो' इत्यामन्त्रणे गृहस्थानां परमनिर्वृतिजनको धर्मः, किंविशिष्टानामित्याह - 'गृहपाशमध्ये वसता' मित्यत्र गृहशब्देन पाशकल्पाः पुत्रकलत्रादयो गृह्यन्ते, तन्मध्ये वसताम्, अनादिभवाभ्यासादकारणं स्नेहबन्धनम् एतचिन्तनीयमित्यष्टमं स्थानं ८ । तथा 'आतइस्तस्य बधाय भवति' 'आतङ्कः' सयोघाती विषूचिकादिरोगः 'तस्य' गृहिणो धर्मबन्धुरहितस्य 'वधाय' विनाशाय भवति, तथा वधवानेकवधहेतुः, एवं चिन्तनीयमिति नवमं स्थानं ९ । तथा 'संकल्पस्तस्य वधाय भ वति' 'संकल्प' इष्टानिष्टवियोगप्रासिजो मानस आतङ्कः, 'तस्य' गृहिणस्तथा चेष्टायोगान्मिथ्याविकल्पाभ्यासेन ग्रहादिप्रासेर्वधाय भवति, एतच्चिन्तनीयमिति दशमं स्थानं १० । तथा 'सोपक्लेशो गृहिवास' इति सहोपक्लेशैः सोपक्लेशो ग्रहिवासो-गृहाश्रमः, उपक्लेशाः कृषिपाशुपाल्यवाणिज्याद्यनुष्ठानानुगताः पण्डितजनगर्हिताः शीतोष्णश्रमादयो घृतलवणचिन्तादयश्चेति, एवं चिन्तनीयमित्येकादशं स्थानं ११ । तथा 'निरुपक्लेशः पर्याय' इति, एभिरेवोपक्लेश रहितः प्रव्रज्यापर्यायः, अनारम्भी कुचिन्तापरिवर्जितः श्लाघनीयो विदुषामित्येवं चिन्तनीयमिति द्वादशं स्थानं १२ । तथा 'बन्धो गृहवासः' सदा तद्धेखनुष्ठानात्, कोशकारकीटवदिति, एतचिन्तनीयमिति त्रयोदशं स्थानं १३ । तथा 'मोक्षः पर्यायः' अनवरतं कर्मनिगडविगमान्मुक्तवदित्येवं चिन्तनीयमिति चतुर्दशं स्थानम् १४ । अत एव 'सावधो गृहवास' इति सावयः - सपापः प्राणातिपातमृषावादादि
मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[ ४२ ], मूल सूत्र [३] “दशवैकालिक” मूलं एवं हरिभद्रसूरि विरचिता वृत्तिः
~ 548~