Book Title: Aagam 42 DASHVAIKAALIK Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(४२)
प्रत
सूत्रांक
॥१५
-१८||
दीप
अनुक्रम
[५२१
-५२४]
Education inte
“दशवैकालिक”- मूलसूत्र - ३ ( मूलं + निर्युक्तिः + भाष्य |+वृत्तिः) चूलिका [१], मूलं [१], / गाथा ||१५-१८]],
निर्युक्ति: [३६७...],
भाष्यं [६२...]
धर्मे निश्चितं 'न प्रचालयन्ति' संगमस्थानान्न कम्पयन्ति 'इन्द्रियाणि' चक्षुरादीनि । निदर्शनमाह – 'उत्पतद्वाता इव संपतत्पवना इव 'सुदर्शनं गिरिं' मेरुम्, एतदुक्तं भवति-यथा मेरुं न वाताश्चालयन्ति तथा तमपीन्द्रियाणीति सूत्रार्थः ॥ १७ ॥ उपसंहरन्नाह - 'इत्येवम्' अध्ययनोक्तं दुष्प्रजीवित्वादि 'संप्रेक्ष्य' आदित आरभ्य यथावद्दृष्ट्वा 'बुद्धिमान्नरः' सम्यग बुद्ध्युपेतः 'आयमुपायं विविधं विज्ञाय' आयः सम्यग्ज्ञानादेः उपायः तत्साधनप्रकारः कालविनयादिर्विविधः - अनेकप्रकारस्तं ज्ञात्वा, किमित्याह-कायेन वाचाऽथ मनसा-त्रिभिरपि करणैर्यथाप्रवृत्तैखिगुप्सिगुप्तः सन् 'जिनवचनम्' अर्हदुपदेशम् 'अधितिष्ठेत्' यथाशक्त्या तदुक्तैकक्रियापालनपरो भूयात् भावायसिद्धौ तत्त्वतो मुक्तिसिद्धेः । ब्रवीमीति पूर्ववदिति सूत्रार्थः ॥ १८ ॥ उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । समाप्तं रतिवाक्याध्ययनमिति ॥ १ ॥
॥ इति श्रीदशवैकालिके श्रीहरिभद्रसूरिविरचितवृहद्वृत्यां प्रथमा चूलिका ॥ १ ॥
अथ द्वितीया चूलिका ।
व्याख्यातं प्रथमचूडाध्ययनम्, अधुना द्वितीयमारभ्यते, अस्य चौघतः संबन्धः प्रतिपादित एव, विशेषतस्त्वनन्तराध्ययने सीदतः स्थिरीकरणमुक्तम्, इह तु विविक्तचर्योच्यत इत्ययमभिसंबन्धः, एतदेवाह भाष्यकारः
Far P&Personal Use Only
मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [४२], मूल सूत्र - [3] “दशवैकालिक” मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
चूलिका -२ "विविक्तचर्या" आरभ्यते
~558~
![](https://s3.us-east-2.wasabisys.com/jainqq-hq/ceb9f0d4a8e29c2f730d19ebf477f72eb641bb2d69d291321ab9f5a28933ec7d.jpg)
Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577