Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 747
________________ wwwwwwwwww -प्रदीप [७११] परस्परं च षन्धुत्वं, वर्धितं सूरिभिस्तदा। जयन्तु गुरुदेवाश्च, तादृशा जैनशासने ॥४७०॥ तत्पदं दीपयामासुः, हीरविजयसूरयः। लघुवयसि दीक्षां च, गृहीत्वा वीरशासने ॥४७१॥ गुर्वाज्ञां च गृहीत्वैव, देवगिरी समागताः । तत्रत्य विज्ञपार्वे च, पठनं पुष्कलं कृतम् ॥४७२॥ प्रमाणशास्त्रग्रन्थेषु, ग्रन्थाः षडदशनात्मकः । अधीताः स्वल्पकालेन, नव्यन्यायः कृतस्तथा ॥४७३ सामुद्रिकं च ज्योतिष्क, साहित्ये संहिता मतिः । नाटकशास्त्रग्रन्थाश्च, अधोताः सूरिभिस्तथा ४७४ सिद्धान्ते पूर्णयोग्यत्वं, सम्प्राप्त गुरुयोगतः। कर्मग्रन्थादिशास्त्राणां, ज्ञानं शुद्ध समादृतम्४७५ यशोगानं च सूरीणां, जैनजैनेतरे तथा । आइनेऽकबरी ग्रन्थे, अबुलफजलेन च ॥४७६। विन्सेण्टस्मिथविज्ञैश्च, स्वग्रन्थेषु स्तुतिः कृता। सर्वविज्ञजनैरेव, प्रशंसाऽतिकृता तदा ॥४७७॥ अपूर्वब्रह्मतेजोभिः, शुद्धपाण्डित्ययोगतः। शुद्धचारित्रयोगेन, प्रभावः प्रसृतो महान् ॥४७८॥

Loading...

Page Navigation
1 ... 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784