Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
-प्रदीप
[ ७२७ ]
कीर्त्तिविजयश्चैव सिद्धान्त परिपाठकः । स्वाध्यायध्यानकर्त्ता च श्रावकान् प्रतिबोधकः ॥ रत्नविजययोगीन्द्रः, योगकार्ये सदा रतः । ग्रन्थपञ्चविनिर्माता, शुद्ध चारित्रपालकः ॥ ६१३॥ भक्तिविजय पंन्यासः जैनसिद्धान्तज्ञायकः । त्रिंशच शिष्यसंयुक्तः, गौर्जरे च विहारवान् ॥ सिंहविजयसाधुश्च, आत्मधर्मगवेषकः । कर्मग्रन्थादिशास्त्राणामभ्यासी सर्वदा खलु ॥३१५॥ विद्याविजय सत्साधुः, जैनशासनदीपकः । व्याख्यानवारिधिश्चैव, जैन साहित्य लेखकः ॥ ६१६॥
अनेकग्रन्थनिर्माता, ग्रन्धाश्च सर्वदेशीयाः ।
पञ्चविंशतिसंख्याकाः, ग्रन्थानां निर्मितीकृताः ॥ शिष्योऽपि तादृशो ज्ञेयः सर्वदर्शनज्ञायकः । ग्रन्थपञ्चककर्तृत्वं तस्मिंश्च विद्यते खलु ॥ ६१८ | न्यायविजयसाधुश्च महाविज्ञश्च सम्मतः । प्रखरतार्किकः सोऽपि, प्रौढग्रन्थविधायकः ॥ ३१६॥ अपूर्वा प्रतिभा तस्य, व्याख्यानकारको महान् । शुद्धसांत्वनशक्तिश्च तत्रैव विद्यते तथा ॥ ६२०॥
,
,

Page Navigation
1 ... 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784