Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
[२८]
योगमहेन्द्रविजयश्चैव, शुद्धचारित्रपालकः । ज्ञानध्यानसमायुक्तः, भक्तिभावसमन्वितः ॥२१॥ गुणविजयसाधुश्च, चारित्रे दृढरागवान् । गुरुभक्तिसमायुक्तः, त्यागभावेषु तत्परः ॥३२२॥ जयन्तविजयश्चैव, शान्तमूर्तिः प्रसिद्धभाक् । वैराग्यवासनायुक्तः, क्रियासु कर्मठः सदा ॥२३॥ प्राचीनतत्त्ववेत्ता च, ग्रन्थसप्तककारकः । शिष्योऽपि गुरुभक्तश्च, सोऽपि ग्रन्थविधायकः ॥ देवेन्द्रविजयः साधुः स्पष्टवक्ता निगद्यते । चारित्रगुणरक्तः स्याद् गुरुध्यानपरायणः ॥६२६॥ धरणेन्द्राख्यसाधुश्च, भजनानन्दकारकः । गौर्जरे विहृतिस्तस्य, क्रियाकाण्डेषु तत्परः ॥६२६ इत्येवं शिष्यसम्पत्तिः, गुरूणां परिजायते । प्रशिष्या नैकसंख्याकाः, वोरशासनसम्मताः ॥ प्रशस्तिकारकेनापि, जैनतत्त्वप्रदोपकम् । व्युत्पत्तिवादटीका च, शक्तिवादस्य टीप्पणम् ॥ नयप्रदीपग्रन्थश्च, व्याकृतिधर्मदीपिका । योगप्रदीपशास्त्रं च, योगस्य प्रतिपादकम् ॥२६॥
१ धर्मदीपका व्याकरणम्

Page Navigation
1 ... 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784