Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah
View full book text
________________
Pwwwwwew
[ ७२२]
योगपरिचयो विशेषेण, वृद्धिचन्द्रमहात्मनाम् । कार्यते सुखषोधाय, शान्तिसाम्राज्यसिद्धये ॥५६७ जगद्गुरुत्वयोग्यत्वं, दृश्यते पादपंकजे। शान्तरसमयीमूर्तिः, तेषां च प्रविलोक्यते ॥५६८ साधूनां शान्तिदातारः, पक्षपातविवर्जिताः। । गुणज्ञा गुणदृष्टारः, दृश्यन्ते नैव तादृशाः ॥५६६॥ क्रोधस्यावसरो नैव, तेषां पार्वे च कर्हि चित् । देवाणुप्रियशब्देन, मुनीन् जल्पन्ति सर्वदा ॥५७०॥ साधुजीवनपर्यन्तं, मिथ्यादुष्कृतकस्य वै । दातव्येऽवसरो नैव, तेषां कदापि जायते ॥५७१॥ विचार्यशुद्धवक्तारः, कुर्वन्ति नैव चापलम् । हितमितादिशब्देन, युक्तं जल्पन्ति ते तथा ५७२ तत्काले सर्वसाधूनामाधिपत्यं च राजते । क्लेशवार्ता न कर्हि चित्तत्समीपे भवेत् खलु ॥५७३॥ महाक्रोधिमनुष्याश्च, यदाऽऽगच्छन्ति नैकटे । शान्तमूत्तिं च तं दृष्ट्वा, तेऽपि गच्छन्ति शान्तिताम् तख्तसिंहाख्यभूपाला, आगत्य गुरुसन्निधौ । एकदा तेऽपि जल्पन्ति, दृष्ट्वा च पादपंकजम् ५७५

Page Navigation
1 ... 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784