Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 746
________________ [७१०] योगमहातपस्विनस्ते च, क्रियोद्धारस्य कारकाः । त्यागि चारित्रपात्रत्वं, तेषु च परिशोभते ॥४६१ तपस्त्यागप्रभावेन, सौराष्ट्रपतिना खलु । सुरत्राणेन सौराष्ट्र, तद्विहारश्च याचितः ॥४६२॥ जगर्षिमुख्यसाधूनां, विहारस्तत्र जायते । गत्वोपदेशदानेन, प्रभावः परिदर्शितः ॥४६३॥ सूरीणामुपदेशेन, कर्माशाहाख्य श्रावकैः । शत्रुजयस्य तीर्थस्य, उद्धारस्तैश्च कारितः ॥४६४॥ नवोपवासकं कृत्वा, अन्त्यावस्थासु सूरिभिः । अनशनं विधायैव, स्वर्गे गच्छन्ति शुद्धितः ॥४६५ तत्प भूषयामासुः विजयदानसूरयः । खरतरतपोगच्छे, प्राग्जातं वैमनस्यकम् ॥४६६॥ तत्सर्वं तन्महाभागैरन्योऽन्यसहकारतः । शासनवृद्धिकार्याय, विनाशितं च प्रेमतः ॥४६७॥ द्वषोत्पादकग्रन्थाश्च, गच्छद्वयस्य सन्ति ये । जलाधीनाश्च ते सर्वे, कारितास्तैश्च सूरिभिः॥ अपूर्वप्रेमवृद्धिश्च, संजाता गुरुयोगतः । जल्पानां सप्तकस्यैव, आज्ञा च सूरिभिः कृता ॥४६६

Loading...

Page Navigation
1 ... 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784