Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 753
________________ - प्रदीप विजयसिंहसूरिश्व, विजयदेवपट्टके । क्रमेणैव समायातः, वीरधर्मस्य शासने ॥५२२॥ तदानिं च क्रिया काण्डे, शैथिल्यं हि प्रवेशितम् । तन्निराशाय यत्नोऽपि, सत्यविजयसाधुभिः ॥५२३ क्रियोद्धारस्य कार्येषु, नैकसाधुसमागताः । आत्मकल्याणकर्त्तव्ये, केषामिच्छा न जायते ॥ ५२४ वैरागी महातपस्वी च, सत्यविजयसाधुराट् । अपरसाधु साहाय्यात्क्रियोद्धारश्च कारितः ॥५२५॥ ततः संवेगि नाम्ना च, आत्मार्थिनश्च साधवः । जैनशासनमध्ये च, विख्याता धर्मयोगतः ॥ ५२६॥ कर्पूरविजयश्चैव, तत्पह परिराजते । क्षमाविजयसाधुश्च, ज्ञातव्यस्तदनन्तरम् ॥५२७॥ जिनविजय भव्यात्मा, ततोऽनुराजते खलु । तपोगच्छे च विख्यातः जयतु भुवि मण्डले ॥५२८ उत्तमविजयस्तस्मात्पद्मविजय पण्डिताः । रूपविजयसाधुश्च कीर्त्तिविजयसाधुराट् ॥ ५२६॥ कस्तूरविजया ज्ञेयाः पूज्याश्च भाग्यशालिनः । मणिविजय शौभाग्यं, वर्तते सर्वसाधुषु ॥५३०|| [ ७१७]

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784