Book Title: Yog Pradip
Author(s): Mangalvijay
Publisher: Hemchand Savchand Shah

View full book text
Previous | Next

Page 755
________________ -प्रदीप [७१६] मूलचन्द्रेण तत्काले, दीक्षा च गुरुसंनिधौ । गृहीता भक्तिभावेन, ततो जाताः सहायकाः ॥ गुरुपार्वे च तत्पाठाः, दृष्टा यदा च तेन वै। मूलचन्द्रमहाराजै, गुरूणां कथितं तदा ॥५४१॥ दाक्षिण्यं नैव कर्त्तव्यं, त्यज्यतां मुखवस्त्रिका । सदा मुखेषु पाटाश्च, अश्वानामेव शोभते ॥५४२ प्रत्युताऽसंख्यजीवानां, हिंसा च जायते ध्रुवम् । तस्याश्च त्रोटनं श्रेष्टं, इत्युत्तवा तैश्च वोटिता॥ कृपाराममहाभागाः, शुद्धवैराग्यमूर्तयः । आत्मकल्याणकर्त्तव्ये, गुरून् गवेषयन्तिते ॥५४४॥ मातुलमूलचन्द्राणां, योगश्च मीलितस्तदा । तद् गुरुनिकटे तैश्च, दीक्षा च स्वीकृता शुभा ॥ वृद्धिचन्द्रं च तन्नाम, योजितं गुरुणा तदा । ततः पाञ्चालदेशेषु, मूर्तिपूजोपदेशनम् ॥५४६॥ विशुद्धश्रावका नैके, संजाताश्चोपदेशतः। विहृत्य तैर्महाभागैः, शुद्धधर्मश्च दर्शितः ॥५४७॥ सिद्धाचलस्य यात्रायै ततश्च साधवस्त्रयः। यात्रां कृत्वा चतुर्मासं, कृतं भावपुरे वरे ॥५४८॥

Loading...

Page Navigation
1 ... 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784