Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
गच्छपरिपालनक्षमाः शिष्याः, ततो विशेषेणैव सांमतं ममाऽऽत्महितमनुष्ठातुसुचितमिति । विचिन्त्य चेदं सति परिक्षाने आत्मीयमायु:शेष स्वयमेव पर्यालोचयति, तदभावेऽन्यमतिशयिनमाचार्यादिकं पृच्छति तत्र स्तोके वायुषि भक्तपरिज्ञादीनामन्यतर मरणं पतिपद्यते । अथ दीर्घमायुः, केवलं जवाबलपरिक्षीणः, तदा वृद्धवासं खीकुरुतेः पुष्टायां तु शक्तौ जिनकल्पादिप्रतिपत्तिमुररीकरोति । तत्र जिनकप मतिपित्सुना प्रथममेव तावत् पश्चभिस्तुलनाभिरात्मा तोलनीयः, तद्यथा
"वेण सत्तेण सुत्तेण एगतेण बलेण य । तुलणा पंचहा वुत्ता जिणकप्पं पडिवजओ" ॥१॥ : तुलना, भावना, परिकर्म चेत्येकार्थानि । तत्राऽचार्यो-पाध्याय प्रवर्तक-स्थविर-गणावच्छेदकलक्षणाः प्रायः पञ्चैव जनाः प्रशस्ताभिरेताभिः पञ्चभिर्भावनाभिर्जिनकल्प प्रतिपित्सवः प्रथममेवाऽऽत्मानं भावयन्ति । अप्रशस्तास्तु-कन्दर्प-देवकिल्बिपका--ऽऽभियोगिका
सुर-संमोहस्वरूपाः पश्च भावनाः सर्वथा दूरतः परित्यजन्ति । तत्र तपसाऽऽत्मानं भावयंस्तथा चुमुक्षा पराजयते यथा देवाग्रुपसर्गादिनाऽनेषणादिकरणतो यदि षण्मासान् यावदाहारं न लभते, तथापि न बाध्यते । सवभावनया तु भयं पराजयते, तत्र भयजयायें रात्रौ सुनेषु शेषसाधुषपाश्रय एव कायोत्सर्ग कुर्वतः प्रथमा सवभावना भवति, द्वितीयादिकास्तूपाश्रयवाह्यादिनदेशेषु । आह च
___"पंढमा उवस्सयम्मि बीया बाहिं तइया चउक्कम्मि । सुण्णहरम्मि चउत्थी अह पंचमिया मसाणम्मि" ॥१॥
सूत्रभावनया तु स्वनामवत् सूत्रं परिचितं तथा करोति यथा रात्रौ दिवा चोच्छ्वासप्राणस्तोकलवमुहूर्तादिकं कालं सूत्रपरावर्तनानुसारेणैव सर्वं सम्यगवबुध्यते । एकत्वभावनया चाऽऽत्मानं भावयन् सङ्घाटिकसाध्वादिना सह पूर्वमवृत्तानालाप-सूत्रार्थ सुखदुःखादिप्रश्न-मिथःकथादिव्यतिकरान् सर्वानपि परिहरति, तती बाह्रममत्वे मूलत एव व्यवच्छेदिते पश्चाद् देहो-पध्यादिभ्योऽपि भित्रमात्मानं पश्यन् सर्वथा तेष्वपिनि बङ्गो भवति । बलभावनायां बलं द्विविधम्- शारीरम्, मानसधृतिबलं च । तत्र शारीरमपि बलं जिनकल्पाहेस्य शेषनातिशायिकमेष्टव्यम्, तप:मभृतिभिस्त्वपकृष्यमाणस्य यद्यपि शारीरं बलं तथाविधं न भवति. तथापि प्रतिबलेनाऽऽत्मा तथा भावयितव्यो यथा महद्भिरपि परीषहोपसगैने बाध्यते । एताभिः पञ्चभिर्भावनाभिर्भाविताऽऽत्मा जिनकल्पिकमतिरूपो गच्छेऽपि प्रतिवसमाहारादि परिकर्म प्रथममेव करोति, तत्राहारे तृतीयपौरुष्यामधगाढायां वल्ल-चणकादिकमन्तं मान्तं रूक्षंच
१ तपसा सत्वेन सूत्रेणैकत्वेन बलेन च । तुलना पञ्चधोक्ता जिनकल्पं प्रतिपद्यमानस्य ॥१॥xपैय-1 ल्प-1 . २ प्रथमा उपाश्रये द्वितीया पहिस्तृतीया चतुष्के । शून्यगृहे चतुर्थी अथ पञ्चमी श्मशाने ॥१॥A समाटि- शाधक-1
ग. 'सुनअगारे'। । ख, घ. छ. 'मनोधृतिबलम् । ५ क. ग. 'जनातिशायक'।
"संसट्ठमसंसट्टा उद्धड तह होइ अप्पलेवा य । उम्गहिआ पग्गहिआ उज्झिअधम्मा य सत्तमिया" ॥१॥ एतासां सप्तानां पिण्डैषणानां मध्ये आद्यद्वयवर्ज शेषपश्चानां मध्यादन्यतरैषणाद्वयाभिग्रहेणाऽऽहारं गृह्णाति- एकया भक्तम्, अपरया त्वेषणया पानकमिति । एवमाद्यागमोक्तविधिना गच्छान्तर्गतः पूर्वमेवाऽऽत्मानं परिकर्म्य ततो जिनकल्यं प्रतिपित्सुः सई मीलयति, वदभावे स्वगणं तावदवश्यमाह्वयते । ततस्तीर्थकरसमीपे, तदभावे गणधरसंनिधाने, तदसत्त्वे चतुर्दशपूर्वधरान्तिके, तदसंभवे दशपूर्वधराभ्यणे, तदलाभे तु वटा-ऽश्वत्था-ऽशोकक्षादीनामासत्तौ जिनकल्पमभ्युपगच्छति । निजपदव्यवस्थापितं सूरिम्, सबालवृद्धं गच्छम् , विशेषतः पूर्वविरुद्धांश्च क्षमयति, तद्यथा
"जैइ किंचि पमाएणं न सुठु मे वट्टि मए पुल्विं । तं मे ! खामेमि अहं निस्सल्लो निक्कसाओ य ॥१॥
आणंदमंसुपायं कुणमाणा ते वि भूमिगयसीसा । खामति ते जहरिहं जहारिहं खामिआ तेणं ॥२॥ .. खामेंतस्स गुणा खलु निस्सल्लयविणयदीवणा मग्गे । लाघवियं एगत्तं अप्पडिबन्धो अ जिणकप्पो" ॥३॥ निजपदस्थापितसूरिप्रभृतीनामनुशास्ति प्रयच्छति, तद्यथा
"पॉलेज सगणमेयं अप्पडिबद्धो य होज सव्वत्थ । ऐसो हु परंपरओ तुमं पि अंते कुणसु एवं" ॥१॥
. .१ संसृष्टासंसृष्टे उद्धता तथा भवत्यल्पलेपा च । उद्गृहीता प्रगृहीता उज्झितधर्मा च सप्तमी ॥३॥
संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यां भिक्षा संसृष्टा, असंसृष्टाभ्यां तु ताभ्यामसंसृष्टा, स्थाल्यादिभ्यः स्वार्थ भोजनाय अक्षिप्ता उद्धता, निले पृथुकादि सरस्वरूपाऽल्पलेपा, भोजनकाले शरावाचाहितभोज्यवस्तुमध्यादुत्पाटिता, भोजनार्थ करोपात्तभोज्यमध्याद् दातुमिष्टा प्रगृहीता, अन्याऽनभिलष्यमाणा परित्यन्यमानभक्तायन्नरूपा उशितधर्मा इति। .
२ यदि किञ्चित् प्रमादेन न सुठु युष्माकं वर्तितं मया पूर्वम् । तं भगवन् ! क्षमयाम्यहं निःशल्यो निष्कशायश्च ॥ १॥
आनन्दाश्रुपातं कुर्वाणास्तेऽपि (साधवः) भूमिगतशीर्षाः । क्षमयन्ति ते यथा, यथार्ह क्षमितास्तेन ॥२॥
मयतश्च गुणाः खलु निःशल्यकविनयदीपना मार्गे । लाघवमेकत्वमप्रतिबन्धश्च जिनकल्पः ॥३॥ ३ पालयेः स्वगणमेतमप्रतिबद्धश्च भवेः सर्वत्र । एष खलु परम्परकत्वमप्यन्ते कुर्या एवम् ॥३॥
"एष च परम्परकः शिष्याचार्यक्रमो यदव्यवच्छित्तिकारकं शिष्यं निष्पाच शक्तौ सस्यामभ्युद्यतविहारः प्रतिपत्तव्यः, एवमप्यन्ते शिष्यनिष्पादनादिकार्थपयवसाने एवमेव कुर्याः" इति बृहस्कल्पभाष्यटीकायां श्रीक्षेमकीर्तिसूरिः ।
For Private and Personal Use Only

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 339