Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 11
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विशेषा सुतरामवसेयम् , तयोरेकाभिप्रायत्वात् । तस्मात् मोक्षलक्षणं फलमभिवाञ्छताऽऽवश्यकानुयोगेऽवश्यं प्रवर्तितव्यमेव, ततोऽपि ज्ञानक्रियामाः, पाभ्यां च मोक्षफलसिद्धिरिति ॥ यदि मनावश्यकानुयोगतो ज्ञान-क्रियाऽवाप्तिः, ताभ्यां च मोक्षसिद्धिः, तथापि किमिति तत्र प्रवर्तितव्यम, न पुनर्यत्र कुत्रचित पष्टितन्त्रादौ , इत्याह- कारणात् कार्यसिदिः, नाकारणादिति कृत्वा कारणे हि सुविवेचिते प्रवर्तमानाः प्रेक्षावन्तः समीहितमप्रतिहन कार्यमासादयन्ति; नाकारणे, अन्यथा तृणादपि हिरण्य-मणि-मौक्तिकाधवाः सर्व विश्वमदरिद्रं स्यात् । कारणं च पारम्पर्येणावश्यकानुयोग एव मोक्षस्य, न षष्टितन्त्रादिकम् , ज्ञान-क्रियाजननद्वारेण तस्य मोक्षसंसाधकत्वात् , इतरस्य तु पारम्पर्येणाऽपि तदसाधकत्वात् ॥ इति गाथार्थः॥ उक्तं फलद्वारम् ॥३॥ अथ योगद्वारमभिधित्सुराहभव्वस्स मोक्खमग्गाहिलासिणो ठियगुरूवएसस्स । आईए जोग्गमिणं बाल-गिलाणस्स वाऽऽहारं ॥ ४ ॥ व्याख्या-यदादौ प्रतिज्ञातम्- शिष्यप्रदानेऽस्य योगोऽवसरो वाच्य इति । तत्राह- समस्तद्वादशाह्यध्ययनकालस्यादौ प्रथममिदं षडिधमावश्यकं योग्यमुपदिशन्ति मुनयः, शेषसमग्रश्रुतप्रदानकालस्यादौ प्रथममेवाऽऽवश्यकमदानस्याऽवसर इति भावः। कस्य पुनरिदमावश्यक योग्यमादिशन्ति मुनयः ?, इत्याह- भव्यस्य मुक्तिगमनयोग्यस्य जन्तोः। स च कश्चिद् दूरभव्योऽसंजातमोक्षमार्गाभिलापोऽपि भवति, तद्वयवच्छेदार्थमाह- मोक्षमार्गः सम्यग्ज्ञान-दर्शन-चारित्ररूपस्तमुत्तरोत्तरविशुद्धिरूपमभिलषितुं शीलमस्य स तथा तस्य । अयं चैवंविधोऽपरिणतगुरूपदेशोऽपि स्यात् , तन्निरासार्थमाह-स्थितः कर्तव्यतया परिणतो गुरूपदेशो यस्याऽसौ स्थितगुरूपदेशस्तस्य । किं यथायोग्यमुपदिशन्ति !, इत्याह-वालग्लानयोरिवाऽऽहारं यथोपदिशन्ति, भिषज इति गम्यते । इदमुक्तं भवतियथाऽऽदी बालस्य कोमल-मधुरादिकम् , ग्लानस्य च पेया-मुद्ग-यूषादिकं तत्कालोचितमुत्तरोत्तरवलपुष्टयादिहेतुमाहारं योग्य भिषजः समुपदिशन्ति, तथेहापि भव्यादिविशेषणविशिष्टस्य जन्तोरादाविदमेवाऽऽवश्यकमुत्तरोत्तरगुणवृद्धिहेतुभूतं योग्यमुपदिशन्ति तीर्थकरगणधरा इति । आवश्यकस्य चादौ शिष्यप्रदानावसरे प्रतिपादिते तदनुयोगस्याऽसौ प्रतिपादित एव द्रष्टव्यः, तयोरेकत्वस्याऽनन्तरमेवाऽऽख्यातत्वात् ॥ इति गाथार्थः॥४॥ आह-ननु यस्य भव्यादिविशेषणविशिष्टस्याऽऽदौ योग्यमिदमावश्यकम् , तस्मै योग्यमित्येतावन्मात्रमेव ज्ञात्वा तद् ददत्या । भष्यस्य मोक्षमार्गाभिलाषिणः स्थितगुरूपदेशस्य । भादौ योग्यमिव पाल-लानयोरिवाऽऽहारम् ॥४॥ चार्याः, आहोस्विदन्योऽपि तत्र कश्चिद् विधिरपेक्षणीयः । इति शिष्यवचनमाशझ्याऽस्मिभेव योगद्वारे तहानविधानादि किचिल्लेशतः पासनिकमभिधित्सुराह कैयपंचनमोकारस्स दिन्तिं सामाइयाइयं विहिणा । आवासयमायरिया कमेण तो सेसयसुयं पि ॥ ५ ॥ - व्याख्या- भव्यादिविशेषणविशिष्टस्यापि शिष्यस्य कृतपश्चनमस्कारस्य चतुर्थ्यर्थे षष्ठी- कृतपश्चनमस्काराय मङ्गलार्थमुच्चारितपश्चनमस्कृतिमङ्गलायेत्यर्थः। सामायिकादिकमावासकं विधिना प्रशस्तं द्रव्य-क्षेत्र-काल-भावरूपेण, प्रशस्तदिगभिमुखव्यवस्थापनादिरूपेण च समयोक्तेन ददत्याचार्याः, न पुनर्योग्यमित्येतावन्मात्रकमेव ज्ञात्वेति भावः। तत ऊर्ध्वमस्मै किन किश्चिद् ददति , इत्याहक्रमेण ततः शेषकमप्याचारादि श्रुतं प्रयच्छन्ति यावच्छूतोदधेः पारम् ।। इति गाथार्थः॥५॥ आवश्यकानुयोगप्रदानेऽप्ययमेव विधिरित्यावेदयितुमाह- . तेणेव याऽणुओगं कमेण तेणेव याऽहिगारोऽयं । जेण विणेयहियत्थाय थेरकप्पक्कमो एसो ॥ ६॥ .. चकारोऽपिशब्दार्थः, भिन्नक्रमश्वः ततस्तेनैव पञ्चनमस्कारकरणादिना क्रमेणाऽनुयोगमपि सूत्रव्याख्यानरूपम् , ददत्याचार्या इति वर्तते, अनयोश्च मूत्रमदानक्रमा-ऽनुयोगमदानक्रमयोर्मध्ये तेनैवं प्रस्तुतगाथापक्रान्तेनाऽनुयोगप्रदानक्रमेणाऽयमस्मदभिमतोऽधिकारः, अनुयोगस्यैवेह प्रस्तुतत्वात , इति भावः। कुतः पुनरिहानुयोगप्रदानक्रमेणैवाधिकारः, इत्याह- येन कारणेन विनेयहितार्थ शिष्यवर्गस्योत्तरोत्तरगुणमाप्तिमपेक्ष्येत्यर्थः, स्थविराणां गच्छवासिनां साधूनां योऽसौ कल्पः समाचारविशेषस्तस्यैषोऽनन्तरगाथावक्ष्यमाणलक्षणः क्रमः परिपाटीरूपः, तेन कारणेनाऽनुयोगप्रदानक्रमेणैवेहाधिकारोऽयमिति ॥ ६॥ का पुनरसौ स्थविरकल्पक्रमः ? इत्याहपैव्वज्जा-सिक्खावयम-ऽत्थग्गहणं च अनिअओ वासो । निप्फत्ती य विहारो सामायारीठिई चेव ॥ ७ ॥ इह स्थविराणामयं क्रमो यदुत-प्रथमं तावद् योग्याय विनीतशिष्याय विधिवदापिताऽऽलोचनाय प्रशस्तषु द्रव्यादिषु स्वयं 1 कृतपञ्चनमस्काराय ददति सामायिकादिकं विधिना । आधासकमाचार्याः क्रमेण ततः शेषकश्रुतमपि ॥ ५॥ ठियं-दि-दा २ तेनैव चानुयोगं क्रमेण तेनैव चाऽधिकारोऽयम् । येन विनेयहिता) स्थविरकल्पक्रम एषः॥॥ प्रवज्या-शिक्षापदम-ऽर्थग्रहणं चानियतो वासः । निष्पत्तिश्च विहारः सामाचारीस्थितिश्चैव ॥ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 ... 339