Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 9
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 2 विशेषा० आह- नन्वावश्यकानुयोगस्तावदावश्यकव्याख्यानम्, चरण- गुणसंग्रहस्तु ज्ञान-दर्शन- चारित्रसंगृहीतिरूपः, ततोऽत्यन्तं भिन्ना - धिकरणत्वात् कथमनयोः सामानाधिकरण्यम् ? । सत्यम्, किन्तु " सोमाइअं च तिविहं सम्मत्तं सुअं तहा चरितं च " इत्यादिवक्ष्यमाणवचनादेकोऽपि सामायिकानुयोगस्तावत् संपूर्णचरण गुणसंग्राहकः, किं पुनः सकलावश्यकानुयोगः १ । ततश्च संपूर्णचरण-गुणसंग्रहयुतत्वादावश्यकानुयोगोऽपि संपूर्णचरण-गुणसंग्रहत्वेनोक्तः, यथा दण्डयोगाद् दण्डः पुरुषः इत्यदोषः । अथवा चरण-गुणानां संग्रहो rarararaaiisit चरण गुणसंग्रह इति बहुव्रीहिपक्षे प्रेर्यमेव नास्ति, केवलमस्मिन् पक्षे सकलमिति विशेषणमावश्यकानुयोगस्य चरण - गुणसंग्रह संपूर्णत्वापेक्षयैव द्रष्टव्यमिति, एतच्च कष्टगभ्यमित्युपेक्ष्यते ॥ आह- ननु यदि “ सामाइअं च तिविहं " इत्यादिवक्ष्यमाणवचनात् सामायिकस्य संपूर्णचरण-गुणसंग्राहकत्वम्, तर्हि तदनुयोगस्य तद्रूपत्वे किमायातम् १ । नैतदेवम्, सामायिकं हि व्याख्येयम्, अनुयोगस्तु व्याख्यानम्, व्याख्येय- व्याख्यानयोश्चैकाभिप्रायत्वादिहाऽभेदेन विवक्षितत्वाददोषः इत्यलमतिचर्चयेति ॥ Acharya Shri Kailassagarsuri Gyanmandir अनेन च संपूर्णचरण- गुणसंग्रहलक्षणेन स्वरूपविशेषणेनाऽऽवश्यकानुयोगस्य महार्थतां दर्शयति भाष्यकारः ॥ आह- ननु यदि त्वयाssवश्यकानुयोगः स्वमनीषिकया वक्ष्यते, तदाऽनादेय एवायं प्रेक्षावताम्, छबस्थत्वे सति स्वतन्त्रतयाऽभिधीयमानत्वात् रथ्यापुरुषवाक्यवत् इति परवचनमाशङ्कय तदुपन्यस्तहेतोर सिद्धतामुपदर्शयन्नाह - 'गुरूव एसानुसारेणं ति' गृणन्ति मिति गुरवस्तीर्थकर - गणधरादयः, तेषामुपदेशो भणनम्, तदनुसारेण तत्पारतन्त्र्येणाऽऽवश्यकानुयोगमहं वक्ष्ये, न तु स्वमनीषिकया; अतः स्वतन्त्रतयाऽभिधीयमानत्वादित्यसिद्धो हेतुरिति भावः । यो हि च्छद्मस्थः सन् परमगुरूपदेशानपेक्षं स्वतन्त्रमेव वक्ति रथ्यापुरुषस्येव, तस्य वचोऽनादेयमिति वयमपि मन्यामहे, केवलं तदिह नास्ति, परमगुरूपदेशानुसारेणैवाऽऽवश्यकानुयोगस्य माभिधीयमानत्वादिति । तदेवं कृतप्रवचनप्रणामो गुरूपदेशनिश्रया सकलचरण-गुणसंग्रहरूपमावश्यकानुयोगमहं वक्ष्य इति पिण्डार्थः ।। आह - ननु श्रीमद्भद्रबाहुमणीता सामायिक निर्युक्तिरिह भाष्ये व्याख्यास्यते, तत्कथमिदमावश्यकानुयोगोऽभिधीयते ? । नैतदेवम्, अभिप्रायाऽपरिज्ञानात्, तथाहि - सामायिकस्य षड्विधावश्यकैकदेशत्वादावश्यकरूपता तावद् न विरुध्यते, तन्निर्युक्तस्तु तद्व्याख्यानरूपैव, व्याख्येय-व्याख्यानयोश्चैकाभिप्रायत्वादेकत्वमित्यनन्तरमेवोक्तम् । तस्मात् सामायिकस्य तन्निर्युक्तेश्च सर्वस्याऽप्याव } १ सामायिकं च त्रिविधं सम्यक्त्वं श्रुतं तथा चारित्रं च । २ " अत्रानुखारलोपः, आर्षत्वात्" इत्यावश्यकनियुक्तिटीकायामस्या एव गाथाया विवरणे श्रीमन्मलयगिरिसूरिः । ३ ध 'स्याप्यस्या' । श्यकत्वात्, तस्य चेह व्याख्यायमानत्वादावश्यकानुयोगरूपता भाष्यस्य न विहन्यतेः इत्यलं विस्तरेण ॥ terer गाथायाः प्रथमपादेन विघ्नसंघातविधातार्थ मङ्गलहेतुत्वादिष्टदेवतानमस्कारः कृतः, शेषपादत्रयेण त्वभिधेयप्रयोजन-संवन्धाभिधानमकारि । तत्रावश्यकानुयोगं वक्ष्य इति ब्रुवताऽऽवश्यकानुयोगोऽस्य शास्त्रस्याऽभिधेय इति साक्षादेवोक्तम् । प्रयोजनसंवन्धौ तु सामर्थ्यादुक्तौ, तथाहि - संपूर्णचरण-गुणसंग्राहकत्वं दर्शयता ज्ञान दर्शन- चारित्राधारताऽस्य शास्त्रस्य दर्शिता भवति, तद्रूपाणि च शास्त्राणि पठन - श्रवणादिभिरनुशील्यमानानि स्वर्गापवर्गप्राप्तिनिबन्धनानि भवन्तीति प्रतीतमेव, अतः स्वर्ग- मोक्षफलावातिरस्य शास्त्रस्य प्रयोजनमिति सामर्थ्यादुक्तं भवति । अभिधेयाऽभिधायकयोश्च वाच्य वाचकभावलक्षणः संबन्धोऽप्यर्थादभिहितो भवति । अस्यां च संबन्ध-प्रयोजना-ऽभिधेयादिचचयां बद्दपि वक्तव्यमस्ति, केवलं बहुषु शास्त्रेष्वतिचर्चितत्वेन सुप्रतीतत्वात्, तथाविधसाध्यशून्यत्वाच्च नेहोच्यते । अनेन चाभिधेयाभिधानेन शास्त्रश्रवणादौ शिष्यप्रवृत्तिः साधिता भवति, अन्यथा हि न श्रवणादियोग्यमिदम्, निरभिधेयत्वात्, काकदन्तपरीक्षावत्; इत्याशङ्क्य नेह कश्चित् प्रवर्तते । उक्तं च " सीर्सेपवित्तिनिमित्तं अभिधेयपओयणाई संबंधो । वत्तव्वाइं सत्थे तस्सुन्नतं सुणिजिहरा " ॥ १ ॥ एवं मङ्गलाद्यभिधाने व्यवस्थापिते कश्चिदाह - नम्बर्हदादय एवेष्टदेवतात्वेन प्रसिद्धाः, तत्किमिति तान् विहाय ग्रन्थकृता पवचनस्य नमस्कारः कृतः ? इति । अत्रोच्यते- “नमस्तीर्थाय " इति वचनादर्हदादीनामपि प्रवचनमेव नमस्करणीयम्, अपरं चार्हदादयोsप्यस्मदादिभिः प्रवचनोपदेशेनैव ज्ञायन्ते, तीर्थमपि च चिरकालं मवचनावष्टम्भेनैव प्रवर्तते, इत्यादिविवक्षयाऽर्हदादिभ्योऽपि प्रवचनस्य प्रधानत्वात्, ज्ञानादिगुणात्मकत्वाच्चेष्टदेवतात्वं न विरुध्यते । प्रवचननमस्कारं च कुर्वद्भिः पूज्यैः सिद्धान्ततत्त्वावगमरसानुरञ्जि तहृदयत्वादात्मनः प्रवचन भक्त्यतिशयः प्रख्यापितो भवति, इत्यलमतिविस्तरेण । मङ्गलादिविचारविषये ह्याक्षेपपरिहारादिकमिहैव ग्रन्थकारोऽपि न्यक्षेण वक्ष्यतीति ॥ १ ख. 'व्यपोहार्थं । २ ख. 'सामर्थ्यता गयौ' । ३ क. ग. 'चर्यायां'। तदेवमियं गाथा, सर्वोऽपि चायं ग्रन्थो महामतिभिः पूर्वसूरिभिर्गम्भीरवाक्यमबन्धैर्व्युत्पन्नभणितिप्रकारेण च व्याख्यातः । तच्च व्याख्यानमित्थं युक्तमपि “गौराड्यां गौरत्वपाण्डुरोग - " न्यायेन मतिमान्यात् सांप्रतकालीन शिष्याणां न तथाविधार्थावगमहेतुतां प्रतिपद्यते, इत्याकलय्य मन्दमतिनाऽपि मया तेषां मन्दतरमतीनां शिष्याणामर्थावगमनिमित्तममुना ऋजुभणितिप्रकारेणेयं गाथा व्या ४ शिष्यप्रवृत्तिनिमित्तमभिधेय-प्रयोजने संबन्धः । वक्तव्यानि शास्त्रे तच्छून्यत्वं शृणुयादितरथा ॥ १. For Private and Personal Use Only

Loading...

Page Navigation
1 ... 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 ... 339