Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
.
.
.
विशेषा० ख्याता, सर्वोऽपि च ग्रन्थोऽयमनेनोल्लेखेन व्याख्यास्यत इति प्रतिपत्तव्यम् । न च वक्तव्यम्- येषां महामतिपूर्वपुरुषवचनैरानबांधी न संपद्यते, तेषां मन्दबुद्धर्भवतो वचनेन कुतोऽयं संपत्स्यते इति: यतो जायत एव समानशीलवचनः समानशीलानामर्थप्रतिपत्तिः, गदाह---
"गोमिल्लुआण गामिल्लुएहिं मिच्छाण होन्ति मिच्छोहिं । सम्म पैडिवत्तीउ अत्थरस न विबुहणिएहिं ॥१॥
निभासाए भयंते समाणसीलाम्म अत्थपडिवत्ती । जायइ मंदरस वि न उण "विविहसक्यप पहिं " ॥२॥ इत्यलमतिबहुभाषितेन ॥ इति गाथार्थः॥१॥
आवश्यकानुयोगोऽत्राभिधास्यत इत्युक्तम् , किं पुनरस्य फलादिकं, यदवगम्य वयं तच्छ्वणादी प्रवर्तामहे । इति प्रेक्षावच्छिष्यवचनमाशङ्कयाऽऽवश्यकानुयोगस्य फलादीन्यभिधित्सुस्तत्संग्रहपरां द्वारगाथामाह
तस्स फल-जोग-मंगल-समुदायत्था तहेव दाराई । तब्भेय-निरुत्त-कम-पओयणाइं च वच्चाई ॥ २ ॥
व्याख्या--तस्येत्यावश्यकानुयोगस्य, प्रेक्षावतां प्रवृत्तिनिमित्तं फलं मोक्षमाप्तिलक्षणं तावदत्र ग्रन्थे वक्तव्यम् । तनोऽस्य योगः शिष्यपदाने संबन्धोऽवसरः प्रस्तावो वाच्यः। आवश्यकानुयोगे च क्रियमाणे किं मङ्गलमित्येतदपि निरूपणीयम् । सामायिकाद्यध्ययनानां 'सावजजोगविरई उकित्तण गुणवओ य पडिवत्ती' इत्यादिगाथया समुदायार्थश्च सावद्ययोगविरत्यादिकोऽभिधानीयः । फलं च योगश्च मङ्गलं च समुदायार्थश्चेति समासः ।' तहेव दाराई ति' तथा द्वारााण चोपक्रमनिक्षेपादीनि कथनीयानि । तेषां द्वाराणां भेदो वक्तव्यः, तद्यथा-आनुपूर्वी-नाम-प्रमाण-वक्तव्यता-ऽर्थाधिकार-समवतारभेदादुपक्रमः षोढा, ओघनिष्पन्न-नामनिष्पन्न-मूत्रालापकनिष्पन्नभेदाद् निक्षेपस्त्रिधा, सूत्र-नियुक्तिभेदादनुगमो द्विधा, नैगमादिभेदाद् नयाः सप्तविधा इत्यादि । उपक्रमणमुपक्रमः, निक्षेपणं निक्षेप इत्यादि । निरुक्तं च शब्दव्युत्पत्तिरूपं भणनीयम् । तथा 'कम त्ति तेषामुपक्रमादिद्वाराणां प्रथममुपक्रम एव ततो यथाक्रमं निक्षेपादय एव, इत्येवंरूपो योऽसौ नियतः क्रमः स युक्त्याभिधानतो निर्देष्टव्यः, युक्ति चात्रैव वक्ष्यति; तद्यथा-नानुपक्रान्तं निक्षिप्यते. नाऽ
. ग्रामीणानां ग्रामीणम्लेंच्छानां भवन्ति म्लेच्छैः । सम्यक् प्रतिपत्तयोऽर्थस्य न विबुधभाणितैः ॥1
निजभाषया भणति समानशीलेऽर्थप्रतिपत्तिः । जायते मन्दस्यापि न पुनर्विविधसंस्कृतम्बम्धेः ॥२॥ २ घ. 'हुन्ति'। २ घ. 'पडिवत्तीओ'। ४ घ. 'विवुह' ।
५ तस्य फल-योग-मङ्गल-समुदायार्थास्तथैव द्वाराणि । तनेद-निरुक्त-क्रम-प्रयोजनानि च वाच्यानि ॥२॥
६ सावद्ययोगविरतिरुत्कीर्तनं गुणवतश्च प्रतिपत्तिः।। निक्षिप्तमनुगम्यत इत्यादि । तथोपक्रमादिद्वाराणामेव प्रयोजन शास्त्रोपकाररूपं नगरदृष्टान्तेन वाच्यम् , यथा सम्राकारं महानगरं किमप्यकृतद्वारं लोकस्याऽनाश्रयणीयं भवति, एकादिद्वारोपेतमपि दुःखनिर्गमप्रवेशं जायते, चतुर्दारोपेतं तु सर्वजनाभिगमनीयं सुखनिर्गमप्रवेशं च संपद्यते; एवं शास्त्रमप्युपक्रमादिचतुर्दारयुक्तं सुबोधम् , सुखचिन्तन-धारणादिसंपन्नं च भवतीति । एवमुपक्रमादिद्वाराणां सुखावबोधादिरूपः शास्त्रोपकारः प्रयोजनमिह वक्ष्यत इति भावः । भेदश्च निरुक्तं च क्रमश्च प्रयोजनं चेति द्वन्द्वं कृत्वा पश्चात् तेषामुपक्रमादिद्वाराणां भेद-निरुक्त-क्रम-प्रयोजनानीत्येवं षष्ठीतत्पुरुषसमासो विधेयः। चः समुच्चये। वाच्यानीति यथायोगमर्थतः सर्वत्र योजितमेव । इति द्वारगाथासंक्षेपार्थः ॥ २॥
विस्तरार्थ तु भाष्यकार एव दिदर्शयिषुः “यथोद्देशं निर्देशः" इति कृत्वा प्रेक्षावतां प्रवृत्यर्थमावश्यकानुयोगफलप्रतिपादिका तावद् गाथामाह
नाण-किरियाहिं मोक्खो तम्मयमावस्सयं जओ तेण । तव्वक्खाणारम्भो कारणओ कजसिद्धि ति ॥ ३ ॥
व्याख्या-ज्ञानं च सम्यगवबोधरूपम्, क्रिया च तत्पूर्वकसावद्या-नवद्ययोगनिहात्ति-प्रवृत्तिरूपा ज्ञानक्रिये, ताभ्यां तावद् मोक्षोऽशेषकर्ममलकलङ्काभावरूपः साध्यते, इति सर्वेषामपि शिष्टानां प्रमाणसिद्धमेव, दर्शनस्य ज्ञान एवाऽन्तर्निहितत्वादिति । यदि नाम ज्ञान-क्रियाभ्यां मोक्षः, तर्हि आवश्यकानुयोगस्य किमायातम् , येन फलवत्तया प्रेक्षावतां तत्र प्रवृत्तिः स्यात् ?; इत्याह-तन्मयमावश्यकम्-ताभ्यां ज्ञान-क्रियाभ्यां निर्वृत्तं तन्मयं ज्ञान-क्रियास्वरूपमावश्यकम् , तत्कारणत्वात् इति भावः । यथा ह्यायुर्वृद्धिकारण त्वेनोपचाराल्लोके घृतमायुरुच्यते, नइलोदकं पादरोगः कारणत्वात् तथैवाऽभिधीयते, एवं प्रस्तुतानुयोगविषयीकृतं सामायिकादिपडध्ययनमूत्रात्मकमावश्यकमपि सम्यग्ज्ञान-क्रियाकारणत्वात् तत्स्वरूपमेव, तदध्ययन-श्रवण-चिन्तन-तदुक्ताचरणप्रवृत्तानामवश्यं सम्य रज्ञान-क्रियाप्राप्तः। तस्मादुक्तन्यायेन ज्ञान-क्रियाऽऽत्मकं यत आवश्यकम् , अतस्तस्याऽऽवश्यकस्य व्याख्यानमनुयोगस्तद्व्याख्यानं तस्याऽऽरम्भः प्रेक्षावता क्रियमाणो न विरुध्यते, आवश्यकात् सम्यग्ज्ञान-क्रियाप्राप्तिद्वारेण मोक्षलक्षणफलसिद्धेः॥
नन्वित्थं तर्हि आवश्यकात सम्यग्ज्ञान-क्रियामाप्तिः, ताभ्यां च मोक्षलक्षणफलसिद्धिः, इत्येवमावश्यकम्यैव पारम्पर्येण मोक्षा नमकं फलं स्यात् , न पुनस्तदनुयोगस्य फलचिन्ता त्वस्यैवेह प्रस्तुता, इति चेत् । सत्यम्, किन्वावश्यक व्याख्येयम् , तद्व्याख्या + चानुयोगः , व्याख्याने च व्याख्येयगत एर सर्वोऽभिप्रायः प्रकटीक्रियते; अतो व्याख्येयस्य यत्फलम , व्याख्यानम्य न
ज्ञानक्रिया या मालम्बसयमावश्यक यनतन : साख्यानारम्भः कारणतः कार्यसिद्धिरिनि ॥३॥
For Private and Personal Use Only

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 339