Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विशेषा०
गुणसुस्थितेन गुरुणा विधिनैव प्रव्रज्या प्रदातव्या । ततः शिक्षापदमिति शिक्षायाः पदं स्थानं शिक्षापदम् , शिक्षेव वा पदं स्थान शिक्षापदमः विधिना प्रवजितस्य शिष्यस्य ततः शिक्षाधिकारो भवतीत्यर्थः। साच शिक्षा द्विविधा-ग्रहणशिक्षा, आसेवनाशिक्षा च । तत्र द्वादश वर्षाणि यावत् सूत्रं त्वयाऽध्येतव्यमित्युपदेशो ग्रहणशिक्षा, आसेवनाशिक्षा तु प्रत्युपेक्षणादिक्रियोपदेशः । आह च
“सा पुण दुविहा सिक्खा गहणे आसेवणे य नायव्वा । गहणे सुत्ताहिज्झण आसेवण तिप्पकप्पाई " ॥१॥ अन्ये तु-शिक्षाशब्दाद् व्रतमिति पदं पृथक् कृत्वा व्रतमिति कोऽर्थः -शिक्षाऽनन्तरं रात्रिभोजनविरमणषष्ठेषु पञ्चसु महाव्रतेधूपस्थाप्यते शिष्यः, इत्येतदपि द्वितीयं व्याख्यानं कुर्वन्ति । एतच्च कल्पचूर्ध्या चिरन्तनटीकायां च न दृष्टम् , इत्यस्माभिरुपेक्षितम् । ततः सूत्रेऽधीते यद् विनेयः कार्यते, तदाह-'अत्थग्गहणं च त्ति' द्वादश वर्षाण्यधीतसूत्रः सन्नसावर्थग्रहणं कार्यते-तस्य पूर्वाधीतसूत्रस्य द्वादश वर्षाणि यावदेषोऽथ ग्राह्यत इत्यर्थः । यथा हि हलारघट्टगन्त्र्यादेर्मुक्तो बुभुक्षितो बलीवर्दः प्रथमं तावच्छोभनमशोभनं वा तृणादिकमावादमनवगच्छन्नपि सर्वमभ्यवहरतिः पश्चाच रोमन्थावस्थायां तदाखादमवगच्छति एवं विनेयोऽर्थमनवबुध्यमानोऽपि द्वादश वर्षाणि सर्व सूत्रमधीते, अर्थावगमाभावे च तत् तस्याऽनास्वादं भवति, अर्थग्रहणावस्थायां तु तदवगमात् सुस्वादमाप्यायकं च - जायते, अतोऽधीतसूत्रेण द्वादश वर्षाण्यवश्यमर्थः श्रोतव्यः । यथा वा कृषीवल: शाल्यादिधान्यं प्रथमं वपति, ततः पालयति. लुनाति, मलति, पुनीते, गृहमानयति, पश्चात्तु निराकुलचित्तस्तदुपभोगं करोति, तदभावे वपनादिपरिश्रमस्य निष्फलत्वप्रसङ्गात एवं शिष्योऽपि सूत्रमधीत्य यदि तदर्थ न शृणुयात, तदा तदध्ययनमयासो विफल एव स्यात् । तस्मात् सूत्राध्ययनानन्तरमवश्यमेव द्वादश वर्षाणि तदर्थः श्रोतव्यः । तस्माद् यत एवं स्थविरकल्पक्रमो यदुत-प्रथमं प्रव्रज्या, ततः सूत्राध्ययनम् , ततोऽप्यर्थग्रहणमितिः अतोऽनुयोगप्रदानक्रमेणैवेहाधिकार इत्येवं प्रस्तुतमभिसंबध्यते । सूत्राध्ययनानन्तरभावी हि तदर्थव्याख्यानरूपः स्थविरकल्पक्रमदृष्टोऽनुयोग एवावश्यकस्य शास्त्रकृता वक्तुमारब्धः, अतः सूत्राध्ययनकालस्यातिप्रान्तत्वेनेह विवक्षितत्वादनुयोगस्यैवाभिधित्सितत्वात् तत्पदानक्रमेणैवाऽधिकार इति भावः । एतावच्चाऽस्यां गाथायां प्रकृतोपयोगि । यत्पुनरंन्यद् व्याख्यास्यते- ' अनिअओ वासो निप्फत्ती य विहारो' इत्यादि, तत् प्रासङ्गिकमित्यवगन्तव्यम् । तत्र 'अनिअओ वासो त्ति ततोऽस्य गृहीतमूत्रार्थस्य शिष्यस्यानियतो वासः क्रियते, ग्रामनगरसंनिवेशादिष्वनियतनिवासेनैष गृहीतमूत्रार्थः शिष्यो यद्याचार्यपदयोग्यः, तदा जघन्यतोऽपि सहायद्वयं दत्त्वाऽऽत्मत' . १ क. 'गुणवस्थितेन'। ख. ग. 'गुणस्थितेन'।
२ सा पुनर्द्विविधा शिक्षा ग्रहणमासेवनं च ज्ञातव्ये । ग्रहणं सूत्राध्ययनमासेवनं तृप्रकल्पादि ॥३॥ ३ क. ख. ग. ततो। तीयो द्वादश वर्षाणि यावद् नानादेशदर्शनं नियमेन कार्यत इत्यर्थः, आचार्यपदानहस्य त्वनियमः । आचार्यपदार्थोऽपि किमिति देशदर्शनं कार्यते इति चेत् । उच्यते- स हि नानादेशेषु पर्यटस्तीर्थकराणां जन्मादिभूमीः पश्यति; ताश्च दृष्ट्रात्र जाताः, इह दीक्षा प्रतिपन्नाः, अमिंश्च देशे निता भगवन्तः, इत्याद्यध्यवसायतो हातिरेकात् तस्य सम्यक्त्वस्थैर्य भवति, अन्येषां च स पश्चात तस्थिरतामुत्पादयति, श्रुताधतिशायिनश्चाचार्यादीन् नानास्थानेषु पश्यतः सूत्रार्थेषु सामाचार्या चाऽस्य विशेषोपलम्भो भवति, नानादेशभाषासमाचारांश्चैष बुध्यते, ततश्च तत्तद्देशजानामपि विनेयानां तत्तद्भाषया धर्म कथयति, ततः प्रतिबोध्य तान् प्रवाजयति, पूर्वप्रव्रजितास्तु तदुपसंपदं प्रतिपद्यन्ते, निःशेषास्मद्भाषासमाचारकुशलोऽयमिति शिष्याणां तदुपरि प्रीतियोगश्च जायते, इत्यादिगुणदर्शनादानियतवासः । 'निप्फत्ती यत्ति' एवं चानियतवासेन द्वादश वर्षाणि पर्यटतस्तस्याऽऽचार्यपदार्हशिष्यत्वेनाऽऽत्मनो निष्पत्तिर्भवति, अन्येषां च प्रभूतशिष्याणां तदन्तिके निष्पत्तिर्जायत इति । 'विहारो त्ति' एवं शिष्यत्वेन निष्पत्ती, सूरिपदे च प्राप्ते, स्वपरोपकारकरणेन दीर्थे च पर्याये परिपालिते, अन्यास्मिंश्च योग्यशिष्ये आचार्यपदे व्यवस्थापिते, ततोऽनन्तरं विहरणं विशेषेण भगवदभिहितमार्गे पराक्रमणं विहारो विशेषानुष्ठानरूपोऽनेन कर्तव्यः। स च द्विविधः- भक्तपरिशे-गिनी-पादपोपगमनलक्षणमभ्युद्यतमरणम् , जिनकल्प-परिहारविशुद्धिककल्प-यथालन्दिककल्पप्रतिपत्तिर्वा । अस्मिंश्च द्विविधेऽपि विहारे सामाचारी ज्ञात्वाऽनुष्ठेया। सा चाऽऽद्ये मरणलक्षणे विहारे
"निष्फाइआ य सीसा सउणी जह अण्डयं पयत्तेण | बारससंवच्छरियं सो संलेहं अह करेइ ॥१॥ चत्तारि विचित्ताई विगईनिज्जूहिआई चत्तारि । संवच्छरे उ दोन्नि उ एगन्तरियं च आयामं ॥२॥ नाइविगिट्ठो य तवो छम्मासे परिमियं च आयाम । अन्ने वि य छम्मासे होइ विगिढ़ तवो कम्मं ॥३॥
वासं कोडिसहिअं आयामं कटु आणुपुव्वीए । गिरिकंदरं तु गंतुं पायवगमणं अह करेइ"॥४॥ इत्यादिका ज्ञातव्या । द्वितीये तु विहारे जिनकल्पादिप्रतिपत्तौ सामाचारी निर्दिश्यते-तत्र जिनकल्पादि प्रतिपित्सुनाऽऽदावेद पररात्रकाले तावदिदं चिन्तनीयम्-विशुद्धचारित्रानुष्ठानेन कृतं मयाऽऽत्महितम् , शिष्याद्युपकारतः परहितं च, निष्पन्नाश्चेदानी मम
, निष्पादिताश्च शिष्याः शकुनी यथाऽण्डकं प्रयत्नेन । द्वादशसांवत्सरिकं स संलेखमथ करोति ॥१॥ चत्वारि विचित्राणि विकृतिनियूहितानि चत्वारि (वर्षाणि) । संवत्सरौ तु द्वौ स्वेकान्तरितं चाऽऽयामम् ॥ २॥ मातिविकृष्टं च तपः षण्मासान् परिमितं चाऽऽयामम् । अन्यानपि च षण्मासान् भवति विकृष्टं तपः कर्म ॥३॥ वर्ष कोटिसहितं आयामं कृत्वाऽऽनुपूा । गिरिकन्दरां तु गत्वा पादपगमनमथ करोति ॥४॥
For Private and Personal Use Only

Page Navigation
1 ... 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 ... 339