Book Title: Visheshavashyak Bhashya Part 01
Author(s): Divyadarshan
Publisher: Divyadarshan

View full book text
Previous | Next

Page 8
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अहम् ॥ पूज्यपादश्रीजिनभद्रगणिक्षमाश्रमणविरचितम् पू. मलधारिश्रीहेमचन्द्रसूरिविरचितया शिष्यहितानाम्न्या बृहद्वृत्त्या विभूषितम् । ॥ श्री विशेषावश्यकभाष्यम् ॥ ( भाग:-१) श्रीसिद्धार्थनरेन्द्रविश्रुतकुलव्योमप्रवृत्तोदयः सदोधांशुनिरस्तदुस्तरमहामोहान्धकारस्थितिः । ताशेषकुवादिकौशिककुलप्रीतिप्रणोदक्षमो जीयादस्खलितप्रतापतरणिः श्रीवर्धमानो जिनः॥१॥ येन क्रमेण कृपया श्रुतधर्म एष आनीय मादृशजनेऽपि हि संप्रणीतः। श्रीमत्सुधर्मगणभृत्प्रमुखं नतोऽस्मि तं सूरिसङ्घमनघं स्वगुरूंश्च भक्त्या ॥२॥ आवश्यकप्रतिनिबद्धगभीरभाष्यपीयूषजन्मजलधिर्गुणरत्नराशिः। ख्यातः क्षमाश्रमणतागुणतः क्षितौ यः सोऽयं गणिर्विजयते जिनभद्रनामा ॥३॥ यस्याः प्रसादपरिवर्धितशुद्धबोधाः पारं व्रजन्ति सुधियः श्रुततोयराशेः। सानुग्रहा मयि समीहितसिद्धयेऽस्तु सर्वज्ञशासनरता श्रुतदेवताऽसौ ॥४॥ इह चरणकरणक्रियाकलापतरुमूलकल्पं सामायिकादिषडध्ययनात्मकश्रुतस्कन्धरूपमावश्यकं ताघदर्थतस्तीर्थकरैः, सूत्रतस्तु गणधरैर्विरचितम । अस्य चातीव गम्भीरार्थता सकलसाधु-श्रावकवर्गस्य नित्योपयोगिता च विज्ञाय चतुर्दशपूर्वधरेण श्रीमद्भद्रबाहुस्वामिनैतदव्याख्यानरूपा " ऑभिणिवोहिअनाणं सुयनाणं चेव ओहिनाणं च " इत्यादिप्रसिद्धग्रन्थरूंपा नियुक्तिः कृता । तन्मध्ये च सामा १ ख. 'रूपाव' । २ ख, गभीरा'। ३ आभिनियोधिकज्ञानं ( मतिज्ञान ) श्रुतज्ञानं चैवाऽवधिज्ञानं च ४ घ. 'खरूपा'। यिकाध्ययननियुक्ति विशेषत एवातिबहुविचारदुर्विज्ञेयार्थीमतिशयोपकारिणी चावगम्य केवलामृतरसस्यन्दिवाग्विलासैः श्रीमज्जिनभद्रगणिक्षमाश्रमणपूज्यैस्तदर्थव्याख्याऽऽत्मकमेव 'कयपवयणप्पणामो' इत्यादिगाथासमूहरू रूपं भाष्यमकारि । तस्य च यथापि श्रीजिनभद्रगणिक्षमाश्रमणज्यः श्रीकोट्याचार्यैश्च वृत्तिर्विहिता वर्तते, तथाऽप्यतिगम्भीरवाक्यात्मकत्वात् , किश्चित्संक्षेपरूपत्वाच्च दुषमानुभावत प्रज्ञादिभिरपचीयमानानां किमपिविस्तराभिधानरुचीनां शिष्याणां नाऽसौ तथाविधोपकारं सांप्रतभावातुं धमाः इति विचिन्त्य मुवलतरवाक्यप्रबन्धरूपा किमपिविस्तरवतीच मन्दमतिनापि मया मन्दतममतिशिष्यावबोधार्थ, श्रुकाभ्याससंपादनार्थ च वृत्तिरियमारभ्यते। तत्र चादौ तावद् विघ्नविनायकोपशमहेतोर्मङ्गलार्थ, शिष्यप्रवृत्तिनिमित्तमभिषेपद्यभिधानार्थं चाह भाष्यकार:कैयपवयणप्पणामो वोच्छं चरण-गुणसंगहं सयलं । आवस्सयाणुओगं गुरूवएसाणुसारेणं ॥ १॥ व्याख्या- 'वोच्छं' इति क्रिया, वक्ष्येऽभिधास्य इत्यर्थः । कम् ? इत्याह- 'आवस्सयाणुओगं ति' अवश्यं कर्तव्यमावश्यक सामायिकादिरूपम् , कचित 'आवासयाणुओगं' इति पाठः, तत्रापि आ समन्ताज्ज्ञानादिगुणैः शून्यं जीवं वासयति तैर्युक्तं करोतीत्यावासकं सामायिकादिरूपमेव, तस्य वक्ष्यमाणशब्दार्थोऽनुयोगो व्याख्यानं विधि-प्रतिषेधाभ्यामर्थप्ररूपणमित्यर्थः, तम । किविशिषः सन् ? इत्याह- 'कयपवयणप्पणामो त्ति' पोच्यन्तेऽनेन, अस्मात् , अस्मिन् वा जीवादयः पदार्था इति प्रवचनम् । अथवा प्रशब्दस्याऽव्ययत्वेनाऽनेकार्थद्योतकत्वात प्रगतं जीवादिपदार्थव्यापक, प्रधानं, प्रशस्तम् , आदौ वा वचनं प्रवचनं द्वादशागणिपिटकम् । आदित्वं चाऽस्य विवक्षिततीर्थकरापेक्षया द्रष्टव्यम् ,"नमस्तीर्थाय" इति वचनात तीर्थकरेणापि तन्नमस्करणादिति । अथवा जीवादितत्त्वं प्रवक्तीति प्रवचनमिति व्युत्पत्तेद्वादशाङ्गम, गणिपिटकोपयोगानन्यत्वाद् वा चतुर्विधश्रीश्रमणसङ्घोऽपि प्रवचनमुच्यते । कृतो विहितो यथोक्तप्रवचनस्य प्रणामो नमस्कारो येन मया सोऽहं कृतप्रवचनप्रणामः। किंस्वरूपमावश्यकानुयोगम् ? इत्याह- ‘चरण-गुणसंगहं ति' चर्यते मुमुक्षुभिरासेव्यत इति चरणम् , अथवा चर्यते गम्यते प्राप्यते भवोदधेः परकूलमनेनेति चरणं व्रत-श्रमणधर्मादयो मूलगुणाः, गुण्यन्ते संख्यायन्त इति गुणाः पिण्डविशुद्धयाद्युत्तरगुणरूपाः, चरणं च गुणाश्च चरणगुणाः; अथवा चरणशब्देन सर्वतो देशतश्च चारित्रमिह विवक्षितम् , गुणशब्देन तु दर्शनज्ञाने, ततश्च चरणं च गुणौ च चरणगुणाः, तेषां संगृहीतिः संग्रहश्चरणगुणसंग्रहः, तम् । स च देशतोऽपि भवतीत्याइ- सकलं परिपूर्णम् ॥ ख. 'भव्यानां'। २ कृतप्रवचनप्रणामो वक्ष्ये चरणगुणसंग्रहं सकलम् । आवश्यकानुयोग गुरूपदंशानुसारेण ॥1॥ ३ घ. 'समन्ततो ज्ञा'। For Private and Personal Use Only

Loading...

Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 339