Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 673
________________ ६४८ विजयप्रशस्त्याम् । तासंपतिं प्रतिबोधसंपत्ति च, बिभराम्बभूव, अत्र खण्डशब्दस्य पुंनपुंसकत्वात् खण्डमिति प्रयोगः ॥ ४१ ॥ गुरुर्गरीयान् नगरस्य तस्य समुन्नतिं सत्कमलश्चकार । प्रवर्धमानैर्महसां समूहैः पानीयराशेरिव शर्वरीशः ॥ ४२ ॥ गरीयान् गुरुः, शर्वरीश इव चन्द्र इव, किं०, सत्कमल: सती सत्या विद्यमाना वा कमला ज्ञानादिश्रीर्यस्य स इति, पक्षे सन् विद्यमानः कमलो लाञ्छनमृगो यत्र सः, अथवा " गजे शङ्खे हरौ छत्रे चन्द्रे पद्मे जिनालये । मौक्तिके विद्रुमे स्वर्णे या नित्या परमेश्वरी" ॥ १ ॥ इति श्रीजिनशासनप्रभावकश्री आमनामनृपप्रतिबोधक श्रीबप्पभट्टिमहाकविवचनात्, तथा " चन्द्रं गता पद्मगुणान् न भुङ्क्ते पद्माश्रिता चान्द्रमसीमभिख्याम् । उमामुखं तु प्रतिपद्य लोला द्विसंश्रयां प्रीतिमवाप लक्ष्मीः ॥ २ ॥ इति कालिदासोक्तकुमारसंभवप्रयोगात्, तथा “छत्रेन्दुपचादिषु रूढिमात्रं" इति श्रीजिनप्रभाचार्यवचनाच्च चन्द्रेऽपि श्रीसद्भावात् सती विद्यमाना कमला यत्र स इति गुरोश्चन्द्रस्य च तुल्यधर्मविशेषणता, तेन सत्कमलो गुरुस्तस्य नगरस्य पानीयराशेः समुद्रस्येव, प्रवर्धमानैः प्रसर्पद्भिः, महसामुत्सवानां तेजसां च समूहैः समुन्नतिं चकारेति काव्यार्थः ॥ ४२ ॥ धर्म्याणि कर्माणि च धार्मिकौघैः प्रपञ्चितानि प्रसभं बभूवुः । तत्र स्थितेऽस्मिन् सुगुरौ कुलीरे

Loading...

Page Navigation
1 ... 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728