Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 705
________________ विजयप्रशस्त्याम् । गुरोर्माहात्म्यतस्तुष्टाः फरङ्गीप्रमुखा जनाः । अनार्या अपि यत्, काऽपि चातुरी महतामहो !॥ १९ ॥ - अहो ! इत्याश्वर्ये, फरङ्गीप्रमुखा अनार्या अपि जनाः, गुरोमहात्म्यतस्तदा तुष्टाः, यतः कारणात् काऽपि महतां पुरुषाणां चातुरी लोकातिशायिनी ॥ १९ ॥ एवं फरङ्गीङ्गेऽपि कृत्वा धर्मप्रभावनाम् । गुरुर्वृतो नागरौघफरङ्गीन्द्रैस्ततोऽचलत् ॥ २० ॥ फरङ्गीद्रङ्गे द्वीपवन्दिरे, बहुदिनानि स्थित्वा एवं धर्मप्रभावनां कृत्वा च गुरुः किं०, नागरीधैर्नगरलोकनिकरैः फरजीन्द्रैश्व वृतो वेष्टितोऽनुगम्यमान इति, ततो बन्दिरादचलत् ॥२०॥ प्रार्थितः पुण्यपूर्णेन सङ्केन द्वीपवासिना । चतुर्मासं चकाराऽसौ तद् देवकुलपाटके ॥ २१ ॥ पुण्यपूर्णेन महापुण्यवता, द्वीपवासिना सङ्केन प्रार्थितो विज्ञशः, असौ गुरुः, तच्चतुर्मासकं वर्षास्थितिरूपं, देवकुलपाटके चकाराऽकरोत् ॥ २१ ॥ पारणेऽपि चतुर्मास्या आकारण कृते गुरोः । नवीननगराधीशाधिकारिश्राद्धसिन्धुरैः ॥ २२ ॥ प्रेषिता भावितवान्ताः श्रावकाः सुविवेकिनः । तैरागत्य स विज्ञप्तो भृशं सूरिरथाचलत् ॥ २३ ॥ ६८० अनयोर्व्याख्या - तत्र चतुर्मास्याः पारणके जाते, गुरोः आकारणस्य आह्वानस्य कृते विज्ञप्तिकरणाय, नवीननगराधी शस्य येऽधिकारिणोऽमात्याः श्राद्धसिन्धुराः श्रावकमुख्यास्तैः ॥ २२ ॥ नवानगरनुपतिराउलजामजीप्रधानैः श्रावकैः प्रेषिताः श्रावकाः, किं०, भावितस्वान्ता धर्मवासनावासितात्मानः, पुनः,

Loading...

Page Navigation
1 ... 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728