Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 714
________________ एकविंशः सर्गः । चारच जीवविचारनवतत्त्वःस्वार्थप्रवचनसारसंग्रहणिकर्मग्रन्थादिग्रन्थरूपः, तत्र चतुराशया इति; अनेन विविधजैनविचारवेतृसूचनम् ।। ५३ ।। इत्याद्युत्कर्षकलितैः सार्धकद्विशतीमितैः । विद्भिर्भाति गच्छोऽयं रत्नौवैरिव रोहणः ॥ ५४ ॥ ६८९ इत्यादयो ये व्यावर्णिता उत्कर्षा ज्ञानादयस्तत्कलितैः, पुनः सार्धद्विशतीप्रमाणैः कैश्चिच्छ्रीहीरविजयसूरिस्थापितैः, कैविच्च श्रीगुरुहस्तस्थापितैः, विद्वद्भिः पण्डितैः, गीतार्थैरिति यावत्; अयं गच्छस्तपागणः, रत्नौघैः रोहणाचल इव भातीति ॥५४॥ श्रीमद्विजयसेनाह्वसूरिदृक्प्रथितोदयः । द्विसहस्रीमितः साधुसमुदायोऽस्ति संप्रति ॥ ५५ ॥ " श्री विजय सेन मूरिप्रसन्नदृशा प्रथित उदयो यस्येति सः, साधूनाम्, अर्थात् साध्वीसमेतानां द्विसहस्रीमितः समुदायः सांप्रतमस्तीति ॥ ५५ ॥ अनेन साधुसाध्वीनां समुदायेन सूरिराट् । अन्वितो विहरत्युर्व्या स्वयूथेनेव यूथराट् ॥ ५६ ॥ सूरिराट् श्रीविजयसेनमूरिमुख्यः अनेन उक्तप्रकारेण साधुगणेनान्वितो यूथेन गजसत्केन, यूथराडिव गजेन्द्र इव, उर्व्या पृथ्व्यां, विहरतीति ॥ ५६ ॥ 66 " श्रीगुरोरुपदेशेन स्थाने स्थाने पुरे पुरे । ग्रामे ग्रामे विदधिरे श्रावकैः सुविवेकिभिः ॥ ५७ ॥ प्रासादा विशदा द्वेधा कलधौताचलश्रियः । नन्दीश्वरादिप्रतिमाप्रतिमाः प्रतिमाः पुनः ॥ ५८ ॥

Loading...

Page Navigation
1 ... 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728