Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 721
________________ प्रशस्तिः । प्रशस्तिरूपो ग्रन्थोऽयं तत्मशस्तिरिहाऽस्तु का। तथापि निजगुर्वादिस्वरूपं तु निरूप्यते ॥१॥ विबुधानन्दने श्रीमद्वीरशासननन्दने । शोभते श्रीतपागच्छः सुरगच्छ इवोदयीं ॥२॥ राकेन्दुरिव यो गच्छः स्वच्छस्तन्नास्ति कौतुकम् । जानक्रियामये पक्षद्वये पूर्णस्तदद्भुतम् ॥ ३॥ तत्तपगणगगनाङ्गणतरुणतरणिकरणितेजसः ऽकीर्णाः । श्रीहीरविजयसूरिप्रभवोऽभूवन् भुवनविदिताः ॥ ४॥ तत्पपद्मिनीपद्मबन्धवः श्रुतसिन्धवः। श्रीमद्विजयसेनाख्याः सूरयो गुणभूरयः ॥५॥ तत्पदृदुग्धजलनिधिचन्द्रः श्रीविजयदेवसूरीन्द्रः। . गौतमतः प्रति संपति जयति भरतभूपणं भगवान् ।।६।। ध्यानस्य चाऽपि धान्यस्याप्यन्तरे न महत्यपि । सादरः सोऽग्रहीत् पूर्वमपरं तु निरादरः ॥ ७ ॥ अहो ! चित्रमहो ! चित्रमहो ! माहात्म्यमुत्तमम् । अनार्येष्वपि धुर्येण फरङ्गीपातशाहिना ॥ ८॥ यस्मिन् सूरौ चतुर्मासीमासीने द्वीपवन्दिरे । सदा व्याख्याविधानाऽऽज्ञा ददे साऽद्यापि वर्तते ।। ९॥ (युग्मम् ) यैः प्रतिष्ठाश्चतस्रश्च कृताः पत्तनपत्तने । तत्र राजतमुद्राणाम लक्षं व्ययीकृतम् ।। १०॥ . स्तम्भतीर्थे महातीर्थे प्रतिष्ठानां त्रयं तथा। रूप्यका व्ययितास्तत्र सहस्राणि चतुर्दश ॥ ११ ॥

Loading...

Page Navigation
1 ... 719 720 721 722 723 724 725 726 727 728