Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 723
________________ प्रशस्तिः । कनकविजयाभिधानः श्रीवाचकमुख्यमण्डलीसिंहः । संस्थापितो निजपदे रिर्नान्ना विजयसिंहः ॥ २५ ॥ (त्रिभिर्विशेषकम् ) पालमरालेन यथा राजमरालो बिभर्ति भुवि शोभाम् । श्रीविजयसिंहगुरुणा तथा विजयदेवसूरीशः ॥२६॥ श्रीगौतमगणधरवद् विजयात् सिंहाभिधानमूरिवरः। श्रीवीरस्येव पुरो विराजते विजयदेवगुरोः ॥ २७ ।। उत्तराध्ययनानीव तुर्योपाङ्गपदानि वा। पत्रिंशद् यत्र राजन्ते गुणास्तपगणाधिपे ॥२८॥ श्रीविजयदेवरेस्तस्य श्रीविजयसिंहसूरेश्च । राज्ये प्राज्ये विजयिनि वारिनिधाविव सदाऽस्ताघे ॥२९॥ इतश्चपूर्व तपागणेऽभूवन् मुनिसुन्दरसूरयः। तेषां राज्ये विरेजुः श्रीलक्ष्मीभद्राभिधा बुधाः ॥३०॥ रनशेखरसूरीशरचिता याऽर्थदीपिका। साऽपि संशोधिता यैः श्रीलक्ष्मीभद्रविशारदैः ॥ ३१॥ यैर्दीक्षिताश्च पत्रिंशद् विनेयास्तेषु तात्त्विकाः । तत्त्वप्रकाशिकाटीकापाठिनोअष्टादशाऽभवन् ॥ ३२ ॥ लक्ष्मीभद्रीयशाखायां शाखायामिव शाखिनः । नानाशिष्यफलश्रेणीपेशलायामिलातले ॥ ३३ ॥ श्रीहेमविमलसूरेवारेऽभूवन् मनीषिशुभविमलाः । गङ्गातरङ्गविमला मनसा वचसा च वपुषा च ॥ ३४ ॥ तत्पादामरभूधरबन्धुरशोभाविधावमरतरवः । श्रीअमरविजयविबुधा विबुधाचार्या इव खधिया ॥ ३५ ॥ तत्क्रमणयमलकमलाऽऽकरकमलाकरणकमलकरकल्पाः । श्रीकमलविजयकोविदकमलाधीशा भुवि बभूवुः ॥ ३६ ।। शाददर्शनचारित्रगुणा यद्गुणा इह ।

Loading...

Page Navigation
1 ... 721 722 723 724 725 726 727 728