Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 713
________________ ६८८ विजयाशस्त्याम् । केचिच्च रुचिराचारविचारचतुराशयाः ॥ ५३ ॥ . केचित् पण्डिताः, किं०, लक्षणार्णवस्य व्याकरणसमुद्रस्य सिद्धहमादेः पारीणं पारगामि यन्मतिवैभवं तद्धरन्तीत्येवंशीलाइति, अनेन वैयाकरणम्चनं, पुनः, केचित् पण्डिताः,तर्कशास्त्राणि जैनशैवभेदभिन्नानि यानि प्रमाणप्रकरणानि स्याद्वादरत्नाकरतत्त्वचिन्तामणिप्रमुखाणि तेषां या वाग् वाणी तत्र वाक्पत्यनुकारिणो बृहस्पतितुल्या इति तार्किकमूचनम् ॥ ५० ॥ पुनः केचित् पण्डिताः, नव्यं स्तवनाहम् , अथवा नव्यं तात्कालिकं यत्काव्यकलाकौशलं कवित्वशक्तिनैपुणं तेन हारिणो मनोहरा इति कवितृसूचनं, च पुनः, कंचित् पण्डिताः, कौतुकार्णािनि आख्यानानि यानि कौतुककथानकानि पाण्डवविक्रमार्कत्रिषष्टीयचरितप्रभृतीनि तेषां यद् व्याख्यानं सभासु क्षणकरणं तत्कुर्वन्तीत्येवंशीला इति व्याख्यानिवक्तृसूचनम् ॥५१॥ पुनः, केचित् पण्डिताः, सकलानि यानि सूत्राणि गणधरश्रुनकेवलिप्रत्येकबुद्धादिमुनिवरविरचितानि तेषामर्थविषयकप्रश्नपतिवचःप्रदाः पृष्टोत्तरपदायिन इति विशेषणमिदमङ्गोपाङ्गादिमूत्रवृत्तिभाष्यादिनिपुणपिशुनम् , पुनः, केचित् पण्डिताः, अगण्यं गणनाऽतीतं यद्गणितं गणितशास्त्रं त्रिशतीलीलावत्यादि, पुनः, ज्योतिःशास्त्रं चारम्भसिद्धिसुधीशृङ्गारवार्तिकरत्नमालाभुवनदीपकादि तत्र विज्ञा इति गणकमौहूर्तिकसूचनम् ॥ ५२ ॥ पुनः, केचित् पण्डिताः, साहित्यशास्त्राणि काव्यकलामूलानि यानि काव्यकल्पलताकाव्यप्रकाशकाव्यानुशासनकाव्यत्रयीकाव्यपश्चकचम्पूच्छन्दोऽनुशासनलिङ्गानुशासनादीनियानि कवित्वशास्त्राणि तद्रूपाब्धिमथने मन्दराद्रयो मेरुतुल्या इति; काव्यशास्त्रसमुद्रपारगामिन इति सूचितम्, च पुनः, केचित् पण्डिताः, रुचिरश्वारुर्य आचारः साधुसामाचारीश्रीओघनियुक्तिपिण्डनियुक्तिदशकालिकोत्तराध्ययनादिग्रन्थरूपः, तथा वि

Loading...

Page Navigation
1 ... 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728