Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 715
________________ विजयप्रशस्त्याम् । गतार्थोऽयम् ।। ५७ ।। किं विदधिर इत्याह- प्रासादा विदधिरे कृता इत्यन्वयः, किं०, द्वेधा वर्णत उच्चत्वतश्थ, कलधौताचलो रूप्याद्रिः सुमेरुव तद्वत् श्रीर्येषां ते पुनः, विशदा निर्मलाः, पुनः, नन्दीश्वर द्वीपस्थजिनप्रतिमानां प्रतिमास्तुल्याः, प्रतिमा विदधिरे || युग्मव्याख्येयम् ॥ ५८ ॥ -६९० अथ गुरूपदेशाद् यत्र जीर्णोद्धारा जातास्तदाहक्रीडाऽऽश्रये जयश्रीणां श्रीमच्छत्रुञ्जये गिरौ । उत्तुङ्गशृङ्गे तारङ्गे श्रीविद्यानगरे पुनः ॥ ५९ ॥ पुरे राणपुरे प्रौढेऽप्यारासणपुरे पुनः । पत्तनादिषु नगरेष्वपि शङ्केश्वरे पुरे ॥ ६० ॥ श्रीसूरीन्द्रोपदेशेन संनिवेशेन संपदाम् । जाता जगज्जनोद्धारा जीर्णोद्धारा अनेकशः ॥ ६१॥ जयश्रीणां क्रीडाsssये के लीगृहे, श्रीशत्रञ्जये, पुनः, तार, किं०, उत्तुङ्गशृङ्गे उच्चशिखरे, पुनः, श्रीविद्यानगरे इलादुर्गाधीश्वरस्य वैषम्ये सति वसतिस्थानीये ॥ ५९ ॥ पुनः, राणपुरे पुरे धरणचतुर्मुखविहारभूषिते, अपि पुनः, आरासणपुरे श्रीविमलमन्त्रिकारितप्रासादेषु, पुनः, पत्तनादिषु नगरेषु श्रीपञ्चासरपार्श्वनाथश्रीनारङ्गपुरयिपार्श्वनाथादिप्रासादानां पुनः शङ्खश्वरग्रामे च श्रीपार्श्वनाथस्य मूलतोऽपि नवीनशिखरबद्धमासादनिर्मापणम् ॥६०॥ संपदां संनिवेशेन स्थानेन श्रीसूरीन्द्रस्य उपदेशेन इत्यादयोऽनेकशो जीर्णोद्धाराः, किं०, जगज्जनानामुद्धारो येभ्यस्ते, जाता अभूवन् । इति त्रिभिर्विशेषकम् ॥ ६१ ॥ 'अथ गुरोश्चरितमुपसंहरन् गुरुमूर्तिमेव वृत्तद्वयेन वर्णयति - किं लक्ष्मीः पुरुषोत्तमप्रणयिनी किं पार्वती वामक् किं ब्राह्मी कवितुष्टिकृत् किम्र शची शश्वद् वृषोल्लासिनी ?

Loading...

Page Navigation
1 ... 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728