Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 672
________________ एकोनविंशः सर्गः । ६४७ इति यो व्यापारस्तलक्षणो वसुप्रवेशो रत्नस्वर्णादिप्रवेशो यत्र तम् ॥ ३८ ॥ पुनः किं०, सान्द्रा वहलाश्छायादिभिर्ये द्रुमाआम्रराजादनमधूककर्कन्धूखर्जूरी केतकी निम्बजम्बूकदम्बतालफलिनीप्रभृतयस्त एव स्वर्द्धमाः फलफुल्लादिप्रदानेन आशापूरकत्वात् कल्पद्रुमास्तेषां या काननाली वनराजी तस्यां क्रीडन्त्यो याः सुदृशः स्त्रियस्ता एवं स्वर्गसुदृशोऽप्सरसस्ताभिर्मनोज्ञं रम्यम्, पुनः किं०, आतोद्यानि वाद्यानि तद्रूपा ये पयोदनिनादा वारिधरध्वनयस्तैर्हृद्यं पुनः किं०, सन्नन्दनं शोभननन्दनवनं, नगरपक्षे सतां साधूनां नन्दनं हर्षकारकं, पुनः, सुन्दरं भद्रशालाभिधानं मेरोर्द्वयोः पूर्वपश्चिमयोः पार्श्वयोः पृथक् पृथग् द्वाविंशतिसहस्रयोजनप्रमाणं भूतललीनं वनं यत्र तं, नगरपक्षे सुन्दरा भद्रा भद्रकारिणी शाला गृहादिशाला पौषधशाला वा यत्र तम् ॥ ३९ ॥ पुनः किं०, सुवर्णैः शोभनवणैर्ब्राह्मणादिभिः, पक्षे सुवर्णेन काञ्चनेन पूर्ण, पुनः किं०, विबुधैः पण्डितैः, पक्षे सुरैवाऽधिगम्यं सेवनीयं पुनः किं०, वृषप्रकर्षस्य सुकृतोत्कर्षस्य, पक्षे तृष्णः शक्रस्य प्रकर्षेण उत्सवराज्या रम्यम् एवमुक्तवर्णकसाम्यात् सुरगिरिमिव कुमरगिरिं श्रीगुरवोऽधिजग्मुः प्राप्ताः । इति पञ्चभिः कुलकव्याख्या 1180 11 पुरं सदामादपदं तदुच्चै 'वां विलासैस्तपगच्छभर्तुः । प्रबोधलक्ष्मीं बिभराम्बभूव पयोजपाणेरिव पद्मखण्डम् ॥ ४१ ॥ पयोजपाणेः सूर्यस्येव, तपगच्छभर्तुः गुरोः, गवां विलासैः किरणविलासैर्वाणीविलासैश्च तत् पुरं पद्मखण्डमिव किं०, आमोदस्य हर्षस्य गन्धस्य च पदं स्थानम्, प्रबोधलक्ष्मीं स्मेर

Loading...

Page Navigation
1 ... 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728