Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 695
________________ ६७. विजयमशस्त्याम् । फरङ्गीणां गुरुस्थानीय इति तेनान्वितेन,पुनः,कपीतानोऽधिकारिविशेषः,कलासः अमात्यविशेषः,तदादयोऽन्येऽपि फरङ्गीविशेषाः, पुनः, पादरीनामा फरङ्गी द्रङ्गे पद्रवास्तव्यस्तत्र नित्यस्थायी, तेन सहितेन॥ ४६॥ फरङ्गीसार्थेन किं कृतमित्याह- श्रीद्वीपवन्दिराद् देवकुलपाटके, अभ्येत्याऽऽगत्य, जल्पं दत्त्वा अस्माभिर्भवतां किमपि विरुद्धं न विधापनीयमित्यादि जल्पप्रदानपूर्व, तपाधिपः श्रीविजयसेनगुरुः, इति वक्ष्यमाणं, विज्ञपयाञ्चके विज्ञप्तिविषयीकृत इति ॥ युग्मव्याख्येति ॥ ४७ ॥ गुरूत्तंस ! त्वयाऽस्माभिधर्मगोष्ठी विधास्यते । .. विरूपं न च केनापि कस्यचित् संनिधास्यते ॥४८॥ - हे गुरुत्तंस! त्वया सह अस्माभिर्धर्मगोष्ठी विधास्यते, च पुनः, केनापि अस्मद्गृह्येण, कस्यचिद् भवद्गृह्यस्याऽनुगस्यापि, किश्चिद् विरूपं प्रतिकूलं, न संनिधास्यते केनापि प्रातिकूल्येन न स्थास्यत इति भावार्थः ॥ ४८॥ आगच्छ स्वच्छचेतस्त्वं तद् वरं द्वीपबन्दिरम् । नो चेत् तदा यस्त्वच्छिष्यमुख्यस्तं प्रेषय द्रुतम् ॥४९॥ हे स्वस्थचेतः ! निर्मलहृदय !, ततः कारणात् , त्वं द्वीपबन्दिरमागच्छ म्बयं पादैः पवित्रयेति, चेद् यदि, त्वं नागच्छसि तदा यः शिष्यः, किं०, त्वच्छिष्येषु मुख्यः स्यात् , तं तत्र प्रेषयेति ॥४९॥ एवं फिरङ्गीवर्गस्याऽऽग्रहेण प्राहिणोद् गुरुः । श्रीनन्दिविजयाऽऽह्वानवाचकं द्वीपबन्दिरे ॥ ५० ॥ एवमित्युक्तलक्षणेन, फरङ्गीवर्गस्य आग्रहेण, गुरुः मूरिः, श्रीनन्दिविजयाहानं वाचकं स्वशिष्यं, द्वीपवन्दिरे प्राहिणोद अपेपयत् ॥ ५० ॥

Loading...

Page Navigation
1 ... 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728