Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 698
________________ विंशः सर्गः। ६७३ 'स क्रूरोऽपिं गुरोर्भाग्याद् भूकान्तः शान्ततामगात् । चन्द्रसंपर्कतश्चन्द्रोपलः किं नाऽम्बु मुञ्चति ॥ ५८ ॥ ___ स भूकान्तो राजा खुरमनामा, स्वभावादेव यतिषु क्रूरोऽपि तदानीं गुरोर्भाग्यात् शान्ततामगात् शान्तो जात इति, दृष्टान्तेनामुमेवार्थ समर्थयति-चन्द्रोपलश्चन्द्रकान्तः, चन्द्रसंप तः शशधरकरसंयोगात् , अम्बु पानीयं, किं न मुञ्चति ? न द्रवति किं १, द्रवत्येवेत्यर्थः ॥ ५८ ॥ राज्ञाऽथ सत्कृतस्तेन सङ्घन बहुना सह । गिरि रैवतनामानमारुरोह महामुनिः ॥ ५९ ॥ _ अथ तेन राज्ञा सत्कृतो यात्राऽनुनादानादिना बहुमानविषयीकृत इति, बहुना सङ्ग्रेन सह रैवतनामानं गिरिमुज्जयन्तं पर्वतं, स महामुनिः आरुरोहाधिरूढ इति ॥ ५९ ॥ मुदितः स गतश्चैत्ये नेमिनः स्वामिनस्ततः । बिम्बमम्बुधरच्छायं वीक्ष्य प्रीतिं परां दधौ ॥ ६० ॥ ___स गुरुर्मुदितः सन् , चैत्ये गुर्जरत्राधीशश्रीसिद्धराजजयसिंहदेवमहामन्त्रीश्वरसज्जनश्रेष्ठिकारिते पृथिवीजयनाम्नि प्रा. सादे, गतः प्राप्तः, तत्र नेमिनः स्वामिनो विम्ब, कि०, अम्बुधरच्छायं श्यामच्छवित्वात् , वीक्ष्य, परां प्रीतिं दधौ महाहर्षवानभूदिति भावः ॥ ६॥ कृत्वा तीर्थस्य तस्याथ सेवां विविधभङ्गिभिः । सूरिः सङ्घसखो भूरिपीतामृत इवाभवत् ॥ ६१ ॥ तस्य तीर्थस्य गिरिनारस्य, विविधभङ्गिभिः सहस्रानव

Loading...

Page Navigation
1 ... 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728