Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 697
________________ - विजयप्रशस्त्यीम् । आमोददायिनीं पूज्यपूज्यपादद्वयीं पथि । सङ्घोऽनघमना भेजे षट्पदः पद्मिनीमिव ॥ ५५ ॥ अनघमनाः स सङ्घः षट्पदो भ्रमरः, पद्मिनीं यथा, तथा पूज्यस्य पूजनाईस्य पूज्यस्य गुरोः पादद्वयीं, किं०, आमोददायिनीं हर्षदायिनीं, पक्षे गन्धदायिनीं, पथि मार्गे, भेजेऽभजत् ॥५५॥ ६७२ अग्रेसरेण गुरुणा गुरुणा ब्रह्मचारिणा । देवसेनेव सा रेजे सङ्घलोकपरम्परा ॥ ५६ ॥ गुरुणा महता धर्मदेशिना वा, गुरुणा श्रीसूरिणा किं०, ब्रह्मचारिणा शीलशालिना, पक्षे ब्रह्मचारिणा कार्तिकेयेन, अग्रेसरेण अग्रगामिना सता 'देवसेनेन्द्रकन्यायां सैन्ये दिविषदामपि" इति श्रीमाचार्यवचनात् यथा देवसेनानाम्नी इन्द्रकन्या का र्तिकेयेन शुशुभे, एतदर्थानुवादिकालिदास महाकविवचो यथा “ अथोपयन्त्रा सदृशेन युक्तां स्कन्देन साक्षादिव देवसेनाम्' इत्यादि, अथवा देवसेना सुरसेनाऽपि, यथा तेनाग्रेसरेण सेनान्या शुशुभे तथा सा सङ्घलोकपरम्परा पुरोविहारिणा गुरुणा रेजे इति ॥ ५६ ॥ 99 सङ्खेन सार्धमद्वैत हर्षेणर्षिसुरर्षभः । जीर्णदुर्गमगात् तत्र राजा खुरमनामकः ॥ ५७ ॥ अद्वैतहर्षेण हर्षाद्वितीयेन, सङ्केन द्वीपवासिना, सार्धं स ऋषिसुरर्षभः मुनिपुरन्दरः, जीर्णदुर्गे गिरिनारगिरितलहट्टिकालङ्कारं, पुरा श्री ऋषभदेवसूनुना भरतानुजन्मना सुराष्ट्रकुमारेण स्थापितम्, अगात् प्राप्त इति, तत्र दुर्गे खुरमनामा राजा श्रीअकव्वर पातिशाहिपर ममान्योम्बरामुख्य श्री आजमखाननन्दनस्तदानीं सौराष्ट्रराष्ट्राधिपत्येनाऽस्तीति शेषः ॥ ५७ ॥

Loading...

Page Navigation
1 ... 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728