Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 680
________________ एकोनविंशः सर्गः। महामहोभिर्भुवनाभिरामां - तत्र प्रतिष्ठां प्रकटप्रतिष्ठाम् ॥ ५८ ॥ गुरवः, किं०, तमोघ्नाः पापापहाः, पक्षे "तमोघ्नो वह्निसूर्येन्दुबुद्धकेशवशम्भुपु" इत्यनेकार्थत्वादत्र सूर्याधिकारत्वाद् गुरवस्तमोनास्ते गुरुभानवः, तत्र स्तम्भतीर्थे, दिनस्य लक्ष्मीमिव वासरश्रियमिव, कीदृशी, प्रकाशेन उद्योतेन एकत्र आलोकेन, अन्यत्र श्रीजिनशासनोद्योतेन, गुवीं गरीयसी, पुनः, महोभिर्महोत्सवैः महातेजोभिश्व, भुवनाभिरामां प्रतिष्ठां, किं०, प्रकटा प्रतिष्ठा गौरवं यस्यां तां, वितेनुश्चक्रुरिति ॥ ५८ ॥ वित्तैश्च वित्तेशसमः समान स्तत्रत्यसङ्घोऽपि समं ववर्ष । क्षेत्रेषु सप्तस्वपि सूरिसूर वचःप्रणुन्नोऽम्बुमुचामिवौघः ॥ ५९ ॥ च पुनः, तत्रत्यसङ्घः किं०, वित्तर्धनैः, वित्तेशसमः धनदतुल्यः, अत एव समानः साभिमानः सन्, अथवा समानः सपूजो लोकैर्धनवान् पूज्यत इति, पुनः किं०, सूरिसूरस्य भट्टारकभास्करस्य वचःपणुन्नोऽम्बुमुचां मेघानामोघः समूह इव सप्तस्वपि क्षेत्रेषु जिनभवनजिनबिम्बाऽऽगेमादिषु, अपिशब्दादन्येष्वपि दीनानाथसाधर्मिकादिष्वपि, समं युगपत् , ववर्षेति धनोत्सर्जनमकरोदिति ।। ५९ ॥ . तस्याग्रहात् तत्र पवित्रतीर्थे श्रीस्तम्भतीर्थे नगरे गणेन्द्रः। स्थितिं वितेने बृहती वपुष्मा निवैष धर्मः कृतसर्वशर्मा ॥ ६ ॥

Loading...

Page Navigation
1 ... 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728