Book Title: Vijayprashasti Mahakavyam
Author(s): Hemvijay Gani, Gunvijay Gani
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 690
________________ विंशः सर्गः । ६६५ गुर्जरत्राविहारांयाऽऽदिश्य सङ्घघनाऽऽग्रहात् ॥ २९ ॥ द्वीपबन्दिरसङ्गेन सार्धमद्वैतसंपदा । प्रभुः प्रत्युन्नतद्रङ्गं प्रतस्थे सुस्थिताऽऽशयः ॥ ३० ॥ अथ चैत्र्यां पूर्णिमायां श्रीशत्रुञ्जये श्रीऋषभदेवमुख्यशृङ्गे द्वितीये शृङ्गे च श्रीमरुदेवाङ्गिते श्री अजितशान्तिस्तोत्रनिष्पत्तिभूमौ श्रीशान्तिनाथश्री अद्भुतादिनाथप्रासादाभिरामे, यात्रां कृत्वा, पुनः कियद्दिनीं स्थित्वा, अनेकसङ्घलोकानां मनोरथान् पूरयित्वेति ॥ २८ ॥ अनूचानचक्रवर्तिनं, किं०, श्री पूज्योपासने महं परायणमपि श्रीविजयदेवसूरिं सङ्घस्य गुर्जर देशसत्कस्य घनाऽऽग्रहात्, गूर्जरत्राविहाराय आदिश्य आदेशविषयीकृत्येति ॥ २९ ॥ स्वयं किं कृतवानित्याह- अद्वैत संपद । ऽद्वितीय श्रीकेण, द्वीपवन्दिरसङ्खेन सार्धे प्रभुः उन्नतमूनाख्यं द्रङ्गं शत्रुञ्जयात् पञ्चाशत्कोशान्तरालस्थितं प्रति, प्रतस्थे चलित इति, किं०, सुस्थितः सम्यग् मर्यादया मनोवचः कायानावाघया स्थित आशयोऽभिप्रायो यस्य स इति ।। इति त्रयाणां व्याख्या ॥ ३० ॥ गौर्वागमनिकी वार्ता पृथ्व्यां प्रासीसरत् तदा । गन्धधूलीभवो गन्धो रोद्धुं किं शक्यते कचित् ? ॥३१॥ तदा तत्र देशे सौराष्ट्रे पृथ्व्यां गौर्वागमनिकी गुरोः आगमनाद्भवा गौर्वागमनिकी, वार्ता प्रासीसरत प्रसारं प्रापति । तत्कारणमेवाह- किं गन्धधूलीभवः कस्तूरीसंभवः, गन्धः कचिद् रोद्धुं केनापि शक्यते ? अपि तु नेति । यदाख्यान्ति स्म गुरवः"वार्ता च कौतुकवती विशदा च विद्या लोकोत्तरः परिमलश्च कुरङ्गनाभेः । तैलस्य विन्दुरिव वारिणि दुर्निवार ८५

Loading...

Page Navigation
1 ... 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728