Book Title: Tattvamrut Chetodutam Jambudwip Samas
Author(s): Jinshasan Aradhak Trust
Publisher: Jinshasan Aradhak Trust
View full book text
________________
[ ५० ] यथार्चकः स्यात्पूर्वस्या, उत्तरस्याच संमुख: 1 दक्षिणस्या दिशो वर्ज, विदिग्वर्जनमेव च ॥ ४ ॥ पश्चिमाभिमुखः कुर्यात्पूजां जैनेन्द्रमूर्तये । चतुर्थ सन्ततिच्छेदो, दक्षिणस्यामसन्ततिः ॥ ५ ॥ आग्नेय्यां तु यदा पूजा, धनहानिर्दिने दिने 1 वायव्यां सन्ततिर्नैव, नैर्ऋत्यां च कुलक्षयः ॥ ६ ॥ ऐशान्यां कुर्वतां पूजां संस्थितिर्नैव जायते 1 अंह्निजानुकरांसेषु, मूर्ध्नि पूजा यथाक्रमम् ॥ ७ ॥ श्रीचन्दनं विना नैव, पूजां कुर्यात्कदाचन । भाले कण्ठे हृदम्भोजो-दरे तिलककारणम् ॥ ८ ॥ नवभिस्तिलकैः पूजा, करणीया निरन्तरम् । प्रभाते प्रथमं वास - पूजा कार्या विचक्षणैः ॥ ९ ॥
मध्याह्ने कुसुमैः पूजा, संध्यायां धूपदीपयुक् । वामाङ्गे धूपदाहः स्या- दग्रपूजा तु संमुखी ॥ १० ॥ अर्हतो दक्षिणे भागे, दीपस्य विनिवेशनम् । ध्यानं च दक्षिणे भागे, चैत्यानां वन्दनं तथा ॥ ११ ॥ हस्तात्प्रस्खलितं क्षितौ निपतितं लग्नं क्वचित्पादयोमूर्धोर्ध्वगतं घृतं कुत्रसनैर्नाभेरधो यद्धृतम् ।
स्पृष्टं दुष्टजनैर्घनैरभिहतं यद्दूषितं कीटकैस्त्याज्यं तत्कुसुमं दलं फलमथो भक्तैर्जिनप्रीतये ॥ १२ ॥

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184