Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 274
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क The * * हा २६४ * * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir एवं सिरिपालनिवस्स सिद्धचक्कच्चणं कुणंतस्स । अधपंचमवरिसेहिं, जा पुन्नं तं तवोकम्मं ॥ ११८० ॥ तत्तो रन्ना निअरज्जलच्छिवित्थारगरुअसत्तीए । गुरुभत्तीए कारिउमारद्वं तस्स उज्जमगं ॥ ११८१ ॥ कत्थवि विच्छिन्ने जिणहरंमि काउं तिवेइअं पीढं । विच्छिण्णं वरकुट्टिमधवलं नवरंगकयचित्तं ॥ ११८२ ॥ सालिमुहेहिं धन्नेहिं पंचवन्नेहिं मंतपूएहिं । रइऊण सिद्धचक्कं, संपुन्नं चित्तचुज्जकरं ॥ ११८३ ॥ एवं अमुना प्रकारेण सिद्धचक्रस्य अर्चनं-पूजनं कुर्वतः श्रीपालनृपस्य अर्द्धपञ्चमवर्षैः सार्दैश्चतुर्भिः संवत्सरैर्यावत्तत्तपःकर्म पूर्ण- पूणीभूतम्, अर्द्ध पञ्चमं येषु तानि अर्द्धपञ्चमानि, अर्द्धपञ्चमानि यानि वर्षाणि तैरिति विग्रहः ॥ ११८० ॥ ततःतदनन्तरं राज्ञा श्रीपालेन निजराज्यलक्ष्म्या यो विस्तारस्तेन या गुरुका-महती शक्तिस्तया पुनर्गुर्व्या-महत्या भक्त्या तस्य तपस उद्यापनं कारयितुमारब्धम् ॥ ११८१ ॥ कुत्रापि विस्तीर्णे जिनगृहे तिस्रो वेदिका यत्र तत् त्रिवेदिकं विस्तीर्णं वरकुट्टिमेनप्रधानबद्धभूम्या धवलम्-उज्ज्वलं पुनर्नवरङ्गैः- नवीनरञ्जकद्रव्यैः कृतानि चित्राणि-आलेख्यानि यत्र तत्तथाभूतं पीठं कृत्वा ॥ ११८२ ॥ मन्त्रैः पूतानि-पवित्राणि मन्त्रपूतानि तैः पञ्चवर्णैः शालिप्रमुखैर्धान्यैः चित्तचोज्जकरं सम्पूर्णं सिद्धचक्रं रचयित्वेति सम्बन्धः, पश्यतां जनानां चित्ते चोज्जम्-आश्चर्यं करोतीति विग्रहः ॥ ११८३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312