Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 299
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क * हा * २८९ * * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जं देसविरइरूवं सव्वविरइरूवयं च अणुकमसो । होइ गिहीण जईणं, तं चारित्तं जए जयइ ॥ १२८१॥ नापि दंसणंपि अ, संपुण्णफलं फलंति जीवाणं । जेणं चिअ परिअरिया, तं चारित्तं जए जयइ ॥ १२८२ ॥ जं च जईण जहुत्तरफलं सुसामाइयाइ पंचविहं । सुपसिद्धं जिणसमए, तं चारित्तं जए जयइ ॥ १२८३॥ जं पडिवन्नं परिपालियं च सम्मं परूवियं दिन्नं । अन्नेसिं च जिणेहिवि, तं चारित्तं जए जयइ ॥१२८४॥ छक्खंडाणमखंडं, रज्जसिरिं चइअ चक्कवट्टीहिं । जं सम्मं पडिवन्नं, तं चारित्तं जए जयइ ॥ १२८५॥ यच्चारित्रं देशविरतिरूपं च पुनः सर्वविरतिरूपकम् अनुक्रमेण 'गृहिणां' गृहस्थानां 'यतीनां' साधूनां भवति, गृहिणां देशविरतिरूपं यतीनां सर्वविरतिरूपमित्यर्थः तच्चारित्रं जगति जयति, सर्वोत्कर्षेण वर्त्तते इत्यर्थः ॥ १२८१ ॥ ज्ञानमपि दर्शनमपि च उभे अपि येन चारित्रेण 'परिकरितें' परिवृते एव जीवानां सम्पूर्णफलं यथा स्यात्तथा 'फलतः ' फलं दत्तः, सम्पूर्णानि फलानि यत्र कर्मणि तत्तथेति क्रियाविशेषणं, तच्चारित्रं जगति जयति ॥ १२८२ ॥ च पुनर्यच्चारित्रं 'जिनसमये' जिनसिद्धान्ते यतीनां साधूनां सुष्ठु - शोभनं सामायिकादि 'पंचविधं' पंचप्रकारं सुतराम्-अतिशयेन प्रसिद्धं वर्त्तते 'यथोत्तरम्' उत्तरोत्तराधिकं फलं यस्य तत्तथा, तच्चारित्रं जगति जयति ॥ १२८३ ॥ जिनैरपि यच्चारित्रं 'प्रतिपन्नं' अङ्गीकृतं पुनः परिपालितं पुनः सम्यक्प्ररूपितम् - उपदिष्टम् अन्येभ्यो दत्तं च तच्चारित्रं जगति जयति ॥ १२८४ ॥ चक्रवर्त्तिभिः अखण्डां षण्णां खण्डानां राज्यश्रियं - राज्यलक्ष्मीं त्यक्त्वा यच्चारित्रं सम्यक् प्रतिपन्नम् - अङ्गीकृतं तच्चारित्रं जगति जयति ॥ १२८५ ॥ For Private and Personal Use Only * **

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312