Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
*******************************
तं सोऊणं सेणिय-राओ नवपयसमुल्लसियभावो । पभणेइ अहह केरिसमेयाण पयाण माहप्पं ? ॥१३०४॥ तो भणइ गणी नरवर !, पत्तं अरिहंतपयपसाएणं । देवपालेण रज्जं, सक्कत्तं कत्तिएणावि ॥१३०५॥ सिद्धपयं झायंता, के के सिवसंपयं न संपत्ता । सिरिपुंडरीयपंडव-पउममुणिंदाइणो लोए ॥१३०६॥ नाहियवायसमज्जिअ-पावभरोऽवि हु पएसिनरनाहो । जं पावइ सुररिद्धिं, आयरियप्पयपसाओ सो ॥१३०७॥ लहुयंपि गुरुवइटुं, आराहंतेहिं वयरमज्झायं । पत्तो सुसाहुवाओ, सीसेहिं सीहगिरिगुरुणो ॥१३०८॥
तत् श्रीपालचरित्रं श्रुत्वा श्रेणिकराजो नवपदेषु समुल्लसितो भावो यस्य स तथाभूतः सन् प्रकर्षेण भणति-कथयति, 'अहहे ति आश्चर्ये ! एतेषां पदानां कीदृशं माहात्म्यं वर्त्तते ?, अचिन्त्यमित्यर्थः॥१३०४ ॥ ततः-तदनन्तरं गणोऽस्यास्तीति गणी-गणभृद् गौतमो भणति, हे नरवर-हे राजन् ! अर्हत्पदस्य प्रसादेन देवपालेन-श्रेष्ठिसेवकेन राज्यं प्राप्त, कार्तिकेन श्रेष्ठिनापि शक्रत्वम्-इन्द्रत्वं प्राप्तम् ॥१३०५॥ सिद्धपदं ध्यायन्तो लोके श्रीपुण्डरीकपाण्डवपद्ममुनीन्द्रादयः के के शिवसम्पदंमुक्तिसमृद्धिं न सम्प्राप्ताः ?, बहवः सम्प्राप्ता इत्यर्थः, पद्मो-रामचन्द्रः ॥ १३०६ ॥ नास्तिकवादेन समर्जितः-सञ्चितः पापोत्कर्षो येन स तथाभूतोऽपि प्रदेशिनरनाथः-प्रदेशिनामा नृपो यत् सुरऋद्धिं-दैवर्द्वि प्राप्नोति, स आचार्यपदस्य प्रसादः ॥१३०७ ॥ गुरुणा-सिंहगिरिणा उपदिष्टं-निवेदितं लघुवयसमपि वर्ज-वजनामकम् उपाध्यायं-वाचनाचार्य आराधयद्भिः (सिंहगिरिगुरोः शिष्यैः) सुसाधुवादः सम्यग्विनीताः शिष्या इत्येवंरूपः प्राप्तः ॥ १३०८ ॥
For Private and Personal Use Only

Page Navigation
1 ... 302 303 304 305 306 307 308 309 310 311 312