Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
那
सि
रि
सि
रि
वा
ल
क
*
हा २९२ *
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कप्पतरुस्स व जस्सेरिसाउ सुरनरवराण रिद्धीओ । कुसुमाइँ फलं च सिवं, तं तवपयमेस वंदामि ॥१२९५॥ अच्वंतमसज्झाइं, लीलाइवि सव्वलोयकज्जाई । सिझंति झत्ति जेणं, तं तवपयमेस वंदामि ॥ १२९६॥ दहिदुब्बियाइमंगल-पयत्थसत्थंमि मंगलं पढमं । जं वन्निज्जइ लोए, तं तवपयमेस वंदामि ॥१२९७॥ एवं च संथणतो, सो जाओ नवपएसु लीणमणो । तह कहवि जहा पिक्खइ, अप्पाणं तंमयं चेव ॥१२९८॥ एयंमि समयकाले, सहसा पुण्णं च आउयं तस्स । मरिऊणं सिरिपालो, नवमे कष्पंमि संपत्तो ॥ १२९९॥
कल्पतरोः कल्पवृक्षस्य इव यस्य तपस ईदृशः सुरवराणां नरवराणां च ऋद्धयः-सम्पदः कुसुमानि पुष्पाणि सन्ति, च - पुनः शिवं-मोक्षं फलं वर्त्तते, तत्तपः पदमेषोऽहं वन्दे ॥ १२९५ ॥ अत्यन्तम् असाध्यानि-साधयितुमशक्यानि सर्वाणि लोकानां कार्याणि येन तपसा लीलयाऽपि हेलया एव झटिति शीघ्रं सिध्यन्ति तत्तपः पदमेषोऽहं वन्दे ॥ १२९६ ॥ लोके दधिदुर्विकादिमङ्गलपदार्थानां सार्थे समूहे यत्तपः प्रथमं मंङ्गलं वर्ण्यते, तस्य भावमङ्गलरूपत्वात्, तत्तपःपदमेषोऽहं वन्देस्तवीमि ॥ १२९७ ॥ एवम् अमुना प्रकारेण च संस्तुवन् सम्यक् स्तुतिं कुर्वन् स श्रीपालः तथा कथमपि नवपदेषु लीनंलग्नं मनो यस्य स लीनमना जातः, तथा आत्मानं तन्मयं - नवपदमयमेव प्रेक्षते - पश्यति ॥ १२९८ ॥ एतस्मिन् समयरूपे काले सहसा-अकस्मात् तस्य - श्रीपालस्य आयुश्च पूर्णं, तदा श्रीपालो मृत्वा नवमे कल्पे-आनतदेवलोके सम्प्राप्तः ॥ १२९९
॥
For Private and Personal Use Only
*
*

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312