Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 308
________________ Shri Mahavir Jain Aradhana Kendra www.kabatirth.org Acharya Shri Kailassagarsun Gyanmandir ***** *** ************************* तं च इमेसिं पयाणं, कित्तियमित्तं इमं तए नायं । जं सब्वाणं मूलं, आराहणमिमेसिं ॥१३२४॥ एयाराहणमूलं, च पाणिणं केवलो सुहो भावो । सो होइ धुवं जीवाण निम्मलप्पाण नन्नेसिं ॥१३२५॥ जेवि य संकपवियप्पवज्जिया हुँति निम्मलप्पाणो । ते चेव नवपयाई, नवसु पएसुं च ते चेव ॥१३२६॥ जं झाया झायंतो, अरिहंतं रूवसुपयपिंडत्थं । अरिहंतपयमयं चिय, अप्पं पिक्खेइ पच्चक्खं ॥१३२७॥ एषां पदानां तच्च इदं माहात्म्यं त्वया कियन्मानं ज्ञातम् ?, अल्पमेव ज्ञातमित्यर्थः, यद्-यस्मात्कारणात् एषामाराधनं सर्वेषां सुखानां मूलं वर्तते ॥ १३२४ ॥ एतेषां पदानामाराधनस्य मूलं-मूलकारणं प्राणिनां केवल एकः शुभो भावोऽस्ति, स शुभो भावो धुवं-निश्चितं निर्मलमात्मा येषां ते निर्मलात्मानः तेषामेव जीवानां भवति, नान्येषामशुद्धात्मनाम् ॥१३२५॥ येऽपि च सङ्कल्पविकल्पवर्जिताः-त्यक्तसांसारिकशुभाशुभवितर्का निर्मलात्मानो जीवाः ते एव नवपदानि सन्ति, चः - पुनः नवसु पदेषु ते एव जीवाः सन्ति ॥१३२६॥ अथोक्तमेवार्थमुपपादयति, यद्-यस्मात्कारणात् ध्याता-ध्यानकर्ता पुमान् रूपसुपदपिण्डस्थं-रूपस्थं पदस्थं पिण्डस्थम् अर्हन्तं-परमात्मानं ध्यायन प्रत्यक्षं-साक्षात् अर्हत्पदमयं-अर्हत्पदस्वरूपमेव आत्मानं प्रेक्षते-पश्यति, तत्र रूपस्थं सर्वातिशयोपेतं समवसरणस्थं, पदस्थम् अर्हमित्यादिपावनपदस्थं, पिण्डं-शरीरं तत्र तिष्ठतीति पिण्डस्थं, पूर्वं पिण्डस्थं ध्येय, पश्चात् पदस्थ, ततो रूपस्थमिति क्रमः ॥१३२७॥ **** **** For Private and Personal Use Only

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312