Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 306
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir किं बहुणा मगहेसर !, एयाण पयाण भत्तिभावेणं । तं आगमेसि होहिसि, तित्थयरो नत्थि संदेहो ॥१३१४॥ तम्हा एयाइं पयाई चेव जिणसासणस्स सबस्सं । नाऊणं भो भविया !, आराहह सुद्धभावेण ॥१३१५॥ एयाइं च पयाइं आराहताण भव्वसत्ताणं । हंतु सयावि हु मंगल-कल्लाणसमिद्धिविद्धीओ ॥१३१६॥ एवं तिकालगोअर-नाणे सिरिगोयमंमि गणनाहे । कहिऊण ठिए सेणिय-राओ जा नमवि मुणिनाहं ॥१३१७॥ उढेइ तओ हरिसिय-चित्तो ता तत्थ कोवि नरनाहं । विन्नवइ देव! वद्धाविज्जसि वीरागमेण तुमं ॥१३१८॥ हे मगधेश्वर ! किंबहुना कथनेन ?, एतेषां पदानां भक्तिभावेन-भक्तिपरिणामेन त्वमागमिष्यद्भवे तीर्थङ्करो भविष्यसि, अत्रार्थे नास्ति सन्देहः ॥१३१४ ॥ तस्मात् एतानि पदान्येव जिनशासनस्य सर्वस्वं ज्ञात्वा भो भविका ! भो भव्या! वा शुद्धभावेन यूयमाराधयत ॥१३१५ ॥ एतानि च पदानि आराधयतां भव्यसत्त्वानां-भव्यजीवानां सदापि हु इति निश्चितंमङ्गलकल्याणसमृद्धिवृद्धयो भवन्तु, मङ्गलं-विपदुपशमरूपं, कल्याणं-सम्पदुत्कर्षरूपं, समृद्धिवृद्धयः-परिवारादिवृद्धिरूपा भवन्तु इत्यर्थः॥१३१६॥ एवं-अमुना प्रकारेण त्रिकालगोचरं-त्रिकालविषयं ज्ञानं यस्य स तथा, तस्मिन् गौतमे गणनाथेगणेश्वरे कथयित्वा स्थिते सति श्रेणिकराजो मुनिनाथं नत्वा यावत् ॥ १३१७ ॥ ततः स्थानात् उत्तिष्ठति, तावत् हर्षितं चित्तं यस्य स तथाभूतः कोऽपि पुरुषः तत्र प्रदेशे नरनार्थ-राजानं विज्ञपयति, हे देव - हे-महाराज! वीरस्य प्रभोरागमेनअत्रागमनेन त्वं वर्धाप्यसे ॥१३१८॥ ********************* For Private and Personal Use Only

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312