Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 292
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandir दिणमासजीवियंताई सेसदाणाइ मुणि जे नाणं । मुत्तिंतं दिति सया, तेऽहं झाएमि उज्झाए ॥१२५०॥ अन्नाणंधे लोयाण लोयणे जे पसत्थसत्थमुहा । उग्घाडयंति सम्म, तेऽहं झाएमि उज्झाए ॥ १२५१ ॥ बावन्नवण्णचंदण-रसेण जे लोयपावतावाई । उवसामयंति सहसा, तेऽहं झाएमि उज्झाए ॥ १२५२ ॥ जे रायकुमरतुल्ला, गणतत्तिपरा अ सूरिपयजुग्गा । वायंति सीसवग्गं, तेऽहं झाएमि उज्झाए ॥ १२५३ ॥ शेषदानानि दिनमासजीवितान्तानि मुणित्वा - ज्ञात्वा ये गुरवः सदा मुक्त्यन्तं ज्ञानं ददति, तान् उपाध्यायानहं ध्यायामि, दिनं च मासश्च जीवितं च-दिनमासजीवितानि तेषु अन्तो येषां तानि शेषदानानि सन्ति इति ज्ञात्वा मुक्तौ अन्तो यस्य तत् मुक्त्यन्तं ज्ञानं-श्रुतज्ञानदानं ये ददति तानहं ध्यायामीति भावः ॥१२५०॥ये गुरवोऽज्ञानेन अन्धानि लोकानां लोचनानि-नेत्राणि प्रशस्तशास्त्रमुखात् लोचनपक्षे प्रशस्तशस्त्रमुखात् सम्यक् उद्घाटयन्ति, तानुपाध्यायान् अहं ध्यायामि ॥ १२५१॥द्वापञ्चाशद्वर्णा एव चन्दनरसः तेन ये गुरवः सहसा-अकस्मात् लोकानां पापतापान् उपशामयन्ति, तानुपाध्यायानहं ध्यायामि॥१२५२॥ये राजकुमारतुल्याः, चः-पुनः गणतप्तिपरा-गणसमाधानकरणतत्पराः तथा सूरिपदस्य-आचार्यपदस्य योग्याः शिष्यवर्ग वाचयन्ति-शिष्यवर्गाय वाचनां ददति, तानुपाध्यायानहं ध्यायामि ॥ १२५३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312