Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 296
________________ Shri Mahavir Jain Aradhana Kendra सि रि सि रि वा ल क हा २८६ * * * * * www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पण वारा उवसमिअं, खओवसमियं असंखसो होइ । जं खाइअं च इक्कसि तं सम्मदंसणं नमिमो ॥ १२६७॥ जं धम्मद्दुममूलं, भाविज्जइ धम्मपुरप्पवेसं च । धम्मभवणपीढं वा, तं सम्मदंसणं नमिमो ॥१२६८ ॥ जं धम्मजयाहारं, उवसमरसभायणं च जं बिंति । मुणिणो गुणरयणनिहिं, तं सम्मदंसणं नमिमो ॥१२६९॥ जेण विणा नापि हु, अपमाणं निष्फलं च चारित्तं । मुक्खोऽवि नेव लब्भइ, तं सम्मदंसणं नमिमो ॥१२७०॥ जं सहाणलक्खण-भूसणपमुहेहिं बहुअभेएहिं । वण्णिज्जइ समयंमी, तं सम्मदंसणं नमिमो ॥१२७१॥ यत् औपशमिकम् आसंसारं पञ्च वारान् भवति, तथा क्षायोपशमिकम् असङ्ख्यवारान् भवति, च- पुनः क्षायिकम् एकशः-एकवारं भवति, तत्सम्यग्दर्शनं नमामः ॥ १२६७ ॥ यत् सम्यक्त्वं धर्मद्रुमस्य-धर्मरूपवृक्षस्य मूलं-मूलमिव भाव्यते, च - पुनः धर्मरूपपुरस्य प्रवेशं प्रवेशद्वारमिव भाव्यते, तथा धर्मरूपं यद् भवनं-मन्दिरं तस्य पीठं वा-पीठमिव भाव्यते, तत्सम्यग्दर्शनं नमामः ॥ १२६८ ॥ तथा यत्सम्यक्त्वं धर्मरूपस्य जगत आधारमिवाधारं मुनयो ब्रुवन्ति कथयन्ति च पुनः यत्सम्यक्त्वमुपशमरूपरसस्य भाजनम् - पात्रमिव भाजनं ब्रुवन्ति, तथा गुणा एव रत्नानि तेषां निधिरिव निधिस्तं यत्सम्यक्त्वं ब्रुवन्ति, तत् सम्यग्दर्शनं नमामः ॥ १२६९ ॥ येन सम्यक्त्वेन विना ज्ञानमपि अप्रमाणं च पुनश्चारित्रं निष्फलं, तथा मोक्षोऽपि नैव लभ्यते, तत् सम्यग्दर्शनं नमामः ॥ १२७० ॥ बहवो भेदा येषां ते तथा तैः, श्रद्धा ४ लक्षण ५ भूषण ५ प्रमुखैर्यत्सम्यक्त्वं समये-सिद्धान्ते वर्ण्यते, तत्सम्यग्दर्शनं वयं नमामः । परमार्थसंस्तवादीनि चत्वारि श्रद्धानानि, शमसंवेगादीनि पञ्च लक्षणानि, जिनशासने कौशलमित्यादीनि पञ्च भूषणानि ॥ १२७१ ॥ For Private and Personal Use Only * ***********

Loading...

Page Navigation
1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312