Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
जे देसणनाणचरित्तरूवरयणत्तएण इक्केण । साहंति मुक्खमग्गं, ते सब्बे साहुणो वद ॥ १२५४ ॥ गयदुविहदुद्रुझाणा, जे झाइअधम्मसुक्कझाणा य । सिक्खंति दुविहसिक्खं, ते सब्बे साहुणो वंदे ॥१२५५॥ गुत्तित्तएण गुत्ता, तिसल्लरहिया तिगारवविमुक्का । जे पालयंति तिपई, ते सब्बे साहुणो वंदे ॥१२५६॥ चउविहविगहविरत्ता जे चउविहचउकसायपरिचत्ता । चउहा दिसंति धम्म, ते सब्बे साहुणो वंदे ॥१२५७॥
ये दर्शनज्ञानचारित्ररूपरत्नत्रयेण मोक्षमार्ग साधयन्ति, कीदृशेन दर्शन त्रयेण ?-एकेन - एकीभावं गतेन सम्मिलितेनेत्यर्थः, त्रयाणामेकत्वं विना मोक्षमार्गो न सिद्ध्यतीति भावः, तान् सर्वान् साधून अहं वन्दे ॥ १२५४ ॥ गते द्विविधे-द्विप्रकारे दुष्टध्याने-आर्तरौद्राख्ये येभ्यस्ते गतद्विविधदुष्टध्यानाः, च - पुनः ध्याते धर्मशुक्लध्याने यैस्ते तथाभूताः सन्तो ये द्विविधशिक्षा-ग्रहणासेवनारूपां शिक्षन्ते, तान् सर्वान् साधून वन्दे॥१२५५॥गुप्तित्रयेण-मनोवाक्कायगुप्तिलक्षणेन गुप्तागुप्तिमन्तः पुनस्त्रिभिः शल्यैः-मायाशल्यादिभिः रहिता-वर्जितास्तथा विभिर्गौरवैः-ऋद्धिगौरवादिभिर्विमुक्ताः सन्तो ये त्रिपदी-ज्ञानदर्शनचारित्ररूपां पालयन्ति, तान् सर्वान् साधूनहं वन्दे ॥१२५६ ॥ चतुर्विधाभ्यः-चतुष्पकाराभ्यः विकथाभ्योराजकथादिभ्यो विरक्ताः, पुनः चतुर्विधा-अनन्तानुबन्ध्यादिभेदाच्चतुष्पकारा ये चत्वारः कषायाः-क्रोधादयस्ते परित्यक्ता यैस्ते तथा, ईदृशाः सन्तो ये दानादिभेदाच्चतुर्दा-चतुर्भिः प्रकारैर्धर्मं दिशन्ति-प्ररूपयन्ति, तान् सर्वान् साधूनहं वन्दे ॥ १२५७॥
For Private and Personal Use Only

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312