Book Title: Sirival Kaha
Author(s): Rajshekharsuri
Publisher: Sisodara Shwe Mu Pu Jain Sangh

View full book text
Previous | Next

Page 277
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsun Gyanmandie सेसेसु सिअपएसुं, चंदणसिअगोलए ठवइ राया । सगसट्ठिगवन्नसयरिपन्न-मुत्ताहलसमेए ॥११९१॥ अन्नं च नवपयाणं, उद्देसेणं नरेसरो तत्थ । तत्तब्वन्नाइं सुमेरुमालाचीराइं मंडेइ ॥११९२॥ सोलस अणाहएसु अ, गरुआई सक्कराइं लिंगाइं । मंडावेइ नरिंदो, नाणामणिरयणचित्ताई ॥११९३॥ शेषेषु दर्शनादिषु चतुर्पु सितपदेषु-श्वेततया व्यवस्थापितेषु राजा श्रीपालः चन्दनेन सितानि-धवलानि गोलकानि स्थापयति, कीदृशानि गोलकानि ?-सप्तषष्ट्या ६७ एकपञ्चाशता ५१ सप्तत्या ७० पञ्चाशता ५० च मुक्ताफलैः समेतानि-भृतानि, अयं भावः- दर्शनादिपदेषु भेदापेक्षया क्रमेणैतावन्ति मुक्ताफलानि गोलकेषु-भृतानि, यतः सम्यग्दर्शनस्य चउसद्दहण - तिलिंगमित्यादिकाः सप्तषष्टिर्भेदाः, ज्ञानस्य स्पर्शनेन्द्रियव्यञ्जनावग्रहमतिज्ञानमित्यादिकाः ५१ भेदाः, चारित्रस्य वयसमणधम्मसंजमेत्यादिकाः सप्ततिर्भेदाः ७० तपस इत्वरानशनतप इत्यादिकाः ५० भेदाः॥११९१॥ अन्यच्च नरेश्वरोराजा श्रीपालो नवपदानाम् उद्देशेन-नवपदानि उद्दिश्य-आश्रित्येत्यर्थः, तत्र-तस्मिन्पीठे तत्तद्वर्णानि सुमेरुमालाचीराणि मण्डयति ॥ ११९२ ॥च - पुनः षोडशसु अनाहतेषु षोडशैव गुरुकाणि-महान्ति शर्करायाः-सितोपलाया लिगानि नानाबहुप्रकारैर्मणिरत्नैश्चित्राणि-विचित्राणि नरेन्द्रो-राजा श्रीपालो मण्डयति ॥ ११९३ ॥ For Private and Personal Use Only

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312