________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सेसेसु सिअपएसुं, चंदणसिअगोलए ठवइ राया । सगसट्ठिगवन्नसयरिपन्न-मुत्ताहलसमेए ॥११९१॥ अन्नं च नवपयाणं, उद्देसेणं नरेसरो तत्थ । तत्तब्वन्नाइं सुमेरुमालाचीराइं मंडेइ ॥११९२॥ सोलस अणाहएसु अ, गरुआई सक्कराइं लिंगाइं । मंडावेइ नरिंदो, नाणामणिरयणचित्ताई ॥११९३॥ शेषेषु दर्शनादिषु चतुर्पु सितपदेषु-श्वेततया व्यवस्थापितेषु राजा श्रीपालः चन्दनेन सितानि-धवलानि गोलकानि स्थापयति, कीदृशानि गोलकानि ?-सप्तषष्ट्या ६७ एकपञ्चाशता ५१ सप्तत्या ७० पञ्चाशता ५० च मुक्ताफलैः समेतानि-भृतानि, अयं भावः- दर्शनादिपदेषु भेदापेक्षया क्रमेणैतावन्ति मुक्ताफलानि गोलकेषु-भृतानि, यतः सम्यग्दर्शनस्य चउसद्दहण - तिलिंगमित्यादिकाः सप्तषष्टिर्भेदाः, ज्ञानस्य स्पर्शनेन्द्रियव्यञ्जनावग्रहमतिज्ञानमित्यादिकाः ५१ भेदाः, चारित्रस्य वयसमणधम्मसंजमेत्यादिकाः सप्ततिर्भेदाः ७० तपस इत्वरानशनतप इत्यादिकाः ५० भेदाः॥११९१॥ अन्यच्च नरेश्वरोराजा श्रीपालो नवपदानाम् उद्देशेन-नवपदानि उद्दिश्य-आश्रित्येत्यर्थः, तत्र-तस्मिन्पीठे तत्तद्वर्णानि सुमेरुमालाचीराणि मण्डयति ॥ ११९२ ॥च - पुनः षोडशसु अनाहतेषु षोडशैव गुरुकाणि-महान्ति शर्करायाः-सितोपलाया लिगानि नानाबहुप्रकारैर्मणिरत्नैश्चित्राणि-विचित्राणि नरेन्द्रो-राजा श्रीपालो मण्डयति ॥ ११९३ ॥
For Private and Personal Use Only