________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
**********
कणयाभे सूरिपए, गोलं गोमेअपंचरयणजुअं । छत्तीसकणयकुसुमं, चंदणघुसिणंकियं ठविअं ॥११८८॥ उज्झायपए नीले, अहिलयदलनीलगोलयं ठवि। चरिंदनीलकलिअं मरगयपणवीसपयगजुयं ॥११८९॥ साहुपए पुण सामे, समयमयं पंचरायपढेंकं । सगवीसइरिटुमणिं, भत्तीए गोलयं ठविअं ॥११९०॥
कनकं सुवर्णं तद्वत् आभा-प्रभा यस्य तत् कनकाभं, तस्मिन् सूरिपदे-आचार्यपदे गोमेदाख्यानि यानि पञ्च रत्नानि तैर्युतं षट्त्रिंशत्कनककुसुमानि-स्वर्णपुष्पाणि यस्मिंस्तत्तथा, पुनश्चन्दनघुसृणाभ्याम् अङ्कितं-लिप्तम् ईदृशं गोलकं स्थापितं, ज्ञानादिपञ्चाचारयुक्तत्वात् पञ्च गोमेदरत्नानि षट्त्रिंशद्गुणोपेतत्वात्तावन्ति स्वर्णपुष्पाणीति ॥ ११८८ ॥ नीलेनीलवर्णतया व्यवस्थापिते उपाध्यायपदेशहिलता-नागवल्ली तस्या दलैः-पत्रैर्नील-नीलवर्णं गोलकं स्थापितम्, कीदृशं गोलकम् ?-चतुर्भिरिन्द्रनीलैः-नीलमणिभिः कलितं-युक्तं, पुनः मरकतानां-हरिमणीनां पञ्चविंशतिरेव मध्यवर्तिपदकं तेन युतं-युक्तं, द्रव्यानुयोगादिचतुरनुयोगयुक्तत्वाच्चत्वार इन्द्रनीलाः पञ्चविंशतिगुणयुक्तत्वात्तावन्तो मरकतमणय इति ॥ ११८९ ॥ श्यामे-श्यामवर्णतया व्यवस्थापिते साधुपदे पुनः सह मृगमदेनेति समृगमदं-कस्तूर्या लिप्तमित्यर्थः, पुनः पञ्चभिः राजपट्टै:-वैराटरत्नैरङ्को-भूषा यस्य तत्तथा, यद्वा पञ्च राजपट्टा अङ्के- उत्सङ्गे अर्थान्मध्ये यस्य तत्तथा, पुनः सप्तविंशतिः रिष्मणयः-श्यामरत्नविशेषा यस्मिंस्तत्तथाभूतं गोलकं भक्त्या स्थापितम्, पञ्चमहाव्रताऽपेक्षया पञ्च राजपट्टाः, सप्तविंशतिगुणाऽपेक्षया तावन्तो रिष्ठमणय इति ॥ ११९० ॥
*********************
********
For Private and Personal Use Only