________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
तत्थ य अरिहंताइसु, नवसु पएसुं ससप्पिखंडाइ । नालियरगोलयाई, सामन्नेणं ठविजंति ॥११८४॥ तेण पुणो नरवइणा, मयणासहिएण वरविवेएण । ताइंपि गोलयाई, विसेससहियाई ठवियाई ॥११८५॥ जहा- अरिहंतपए धवले, चंदणकपूरलेवसिअवन्नं । अडकक्केअणचउतीसहीरयं गोलयं ठविअं॥११८६॥ सिद्धपए पुण रत्ते, इगतीसपवालमट्ठमाणिक्कं । नवरंगघुसिणविहिअप्पलेवगुरुगोलयं ठवियं ॥११८७॥
तत्र-सिद्धचक्रेहंदादिषु नवसु पदेषु सामान्येन सर्पिः-घृतं खण्डश्च-मधुधूलिस्ताभ्यां सहितानि भूतानि ससर्पिःखण्डानि नारिकेलफलानि स्थाप्यन्ते ॥ ११८४ ॥ तेन पुनर्नरपतिना-राज्ञा श्रीपालेन मदनसुन्दरीसहितेन तान्यपि गोलकानि विशेषवस्तुयुक्तानि स्थापितानि, कीदृशेन तेन ?-वरः-प्रशस्तो विवेको यस्य स तेन ॥ ११८५ ॥ कथमित्याह- यथा धवलेधवलवर्णतया व्यवस्थापितेर्हत्पदे चन्दनकर्पूरयोर्लेपनेन सितः-श्वेतो वर्णो यस्य तत्तथा पुनरष्टौ कर्केतनानिश्वेतरत्नविशेषाश्चतुस्त्रिंशच्च हीरका यस्मिंस्तत्तथाभूतं गोलकं स्थापितं, अत्रायं भावः- अष्टप्रातिहार्याऽपेक्षयाऽष्टौ कतनानि चतुस्त्रिंशदतिशयापेक्षया तावन्तो हीरका इति ॥ ११८६ ॥ रक्ते-रक्तवर्णतया व्यवस्थापिते सिद्धपदे, पुनः एकत्रिंशत्-विद्रुमा यत्र तत्तथा, पुनरष्टौ माणिक्यानि यत्र तत्तथा, पुनर्नवरङ्ग-नवीनरक्तत्वयुक्तं यद् घुसृणं-कुङ्कुमं तेन विहितः प्रलेपः-प्रकृष्टलेपो यस्य तत् तथाभूतं गुरु-महत् गोलकं स्थापितं, अष्टकर्मक्षयोत्पन्नाष्टगुणापेक्षयाऽष्टौ माणिक्यानि, एकत्रिंशद्गुणापेक्षया तावन्तः प्रवाला इति ॥ ११८७ ॥
***********************
२६५
For Private and Personal Use Only