________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
The
*
*
हा
२६४ *
*
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एवं सिरिपालनिवस्स सिद्धचक्कच्चणं कुणंतस्स । अधपंचमवरिसेहिं, जा पुन्नं तं तवोकम्मं ॥ ११८० ॥ तत्तो रन्ना निअरज्जलच्छिवित्थारगरुअसत्तीए । गुरुभत्तीए कारिउमारद्वं तस्स उज्जमगं ॥ ११८१ ॥ कत्थवि विच्छिन्ने जिणहरंमि काउं तिवेइअं पीढं । विच्छिण्णं वरकुट्टिमधवलं नवरंगकयचित्तं ॥ ११८२ ॥ सालिमुहेहिं धन्नेहिं पंचवन्नेहिं मंतपूएहिं । रइऊण सिद्धचक्कं, संपुन्नं चित्तचुज्जकरं ॥ ११८३ ॥
एवं अमुना प्रकारेण सिद्धचक्रस्य अर्चनं-पूजनं कुर्वतः श्रीपालनृपस्य अर्द्धपञ्चमवर्षैः सार्दैश्चतुर्भिः संवत्सरैर्यावत्तत्तपःकर्म पूर्ण- पूणीभूतम्, अर्द्ध पञ्चमं येषु तानि अर्द्धपञ्चमानि, अर्द्धपञ्चमानि यानि वर्षाणि तैरिति विग्रहः ॥ ११८० ॥ ततःतदनन्तरं राज्ञा श्रीपालेन निजराज्यलक्ष्म्या यो विस्तारस्तेन या गुरुका-महती शक्तिस्तया पुनर्गुर्व्या-महत्या भक्त्या तस्य तपस उद्यापनं कारयितुमारब्धम् ॥ ११८१ ॥ कुत्रापि विस्तीर्णे जिनगृहे तिस्रो वेदिका यत्र तत् त्रिवेदिकं विस्तीर्णं वरकुट्टिमेनप्रधानबद्धभूम्या धवलम्-उज्ज्वलं पुनर्नवरङ्गैः- नवीनरञ्जकद्रव्यैः कृतानि चित्राणि-आलेख्यानि यत्र तत्तथाभूतं पीठं कृत्वा ॥ ११८२ ॥ मन्त्रैः पूतानि-पवित्राणि मन्त्रपूतानि तैः पञ्चवर्णैः शालिप्रमुखैर्धान्यैः चित्तचोज्जकरं सम्पूर्णं सिद्धचक्रं रचयित्वेति सम्बन्धः, पश्यतां जनानां चित्ते चोज्जम्-आश्चर्यं करोतीति विग्रहः ॥ ११८३ ॥
For Private and Personal Use Only