________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
**
*
******
सिद्धंतसत्थपुत्थय-कारावणरक्खणच्चणाईहिं । सज्झायभावणाइहिं, नाणपयाराहणं कुणइ ॥ ११७६ ॥ वयनिअमपालणेणं, विरइक्कपराण भत्तिकरणेणं । जइधम्मणुरागेणं, चारित्ताराहणं कुणइ ॥ ११७७॥ आसंसाइविरहिअं, बाहिरभिंतरं तवोकम्मं । जहसत्तीइ कुणंतो, सुद्धतवाराहणं कुणइ ॥ ११७८ ॥ एमेयाई उत्तमपयाई सो दब्वभावभत्तीए । आराहतो सिरिसिद्धचक्कमच्चेइ निच्चंपि ॥ ११७९ ॥
सिद्धान्तशास्त्राणां ये पुस्तकास्तेषां कारणं-निर्मापणं पुनर्यत्नतो रक्षणं तथाऽर्चनं-धूपचन्दनवस्त्रादिभिः पूजनं इत्यादिस्तथा स्वाध्यायेन-वाचादिपञ्चप्रकारेण तथा भावनाभिर्ज्ञानस्वरूपचिन्तनरूपाभिर्ज्ञानपदस्याराधनां करोति ॥ ११७६ ॥ व्रतानाम्-अणुव्रतानाम् नियमानां-अभिग्रहादीनां पालनेन तथा विरतिः-सावधव्यापारनिवृत्तिःसा एव एका पराप्रकृष्टा येषां ते तेषां विरत्येकपराणांसाध्वादीनां भक्तिकरणेन तथा यतिधर्मे-दशविधसाधुधर्मेऽनुरागेण चारित्रपदस्याराधनां करोति ॥ ११७७ ॥ आशंसा-इहपरभवसुखादिवाञ्छा तया विशेषेण रहितं बाह्यमुपवासादि आभ्यन्तरं च प्रायश्चित्तादि तपःकर्म यथाशक्ति-स्वशक्त्यनुसारेण कुर्वन् शुद्धतपसो-निर्मलतपस आराधनां करोति ॥११७८ ॥ एवम्-अमुना प्रकारेण स श्रीपाल एतानि उत्तमपदानि द्रव्यभावभक्त्या आराधयन् नित्यं-निरन्तरमपि श्रीसिद्धचक्रमर्चयति-पूजयति ॥११७९ ॥
** मैं . . . . .
For Private and Personal Use Only