________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandie
सिद्धाणवि पडिमाणं, कारावणपूअणापणामेहिं । तग्गयमणझाणेणं, सिद्धपयाराहणं कुणइ ॥ ११७१ ॥ भत्तिबहुमाणवंदण-वेआवच्चाइकज्जमुज्जुत्तो । सुस्सूसणविहिनिउणो, आयरिआराहणं कुणइ ॥ ११७२॥ . ठाणासणवसणाई, पढंतपाढंतयाण पूरंतो । दुविहभत्तिं कुणंतो, उवझायाराहणं कुणइ ॥ ११७३ ॥ अभिगमणवंदणनमंसणेहिं असणाइवसहिदाणेहिं । वेआवच्चाईहिं अ, साहुपयाराहणं कुणई ॥११७४॥ रहजत्ताकरणेणं, सुतित्थजत्ताहिं संघपूआहिं । सासणपभावणाहिं, सुदंसणाराहणं कुणइ ॥ ११७५ ॥
सिद्धानामपि याः प्रतिमाः तासां कारणं-निर्मापणं पूजना-अर्चना प्रणामो-नमस्कारस्तैस्तथा तद्गतेन-तेषु सिद्धेषु प्राप्तेन मनसा यत् ध्यानं तेन सिद्धपदस्याराधनां करोति ॥ ११७१ ॥ भक्तिः-मनसि निर्भरा प्रीतिर्बहुमानोबाह्यप्रतिपत्तिर्वन्दनवैयावृत्त्ये प्रसिद्ध इत्यादिकार्येषु युक्त-उद्यतस्तथा शुश्रूषणस्य-सेवनस्य यो विधिस्तत्र निपुणो-दक्ष एवम्भूतः सन् आचार्यपदाराधनां करोति ॥११७२॥ पठतां पाठयतां च साध्वादीनां स्थानाशनवसनादि-निवासस्थानभोजनवस्त्रादि पूरयन् द्रव्यभावभेदतो द्विविधां भक्तिं कुर्वन् उपाध्यायपदाराधनां करोति ॥११७३॥अभिगमन-सम्मुखगमनं वन्दनं-स्तुतिः नमस्यनं-नमस्कारकरणं तैस्तथा अशनादीनां वसतेश्च दानैश्च पुनर्वैयावृत्त्यादिभिः साधुपदाराधनां करोति ॥ ११७४ ॥ रथयात्राकरणेन सुतीर्थयात्रादिभिः पुनः सङ्घपूजाभिस्तथा शासनस्य प्रभावनाभिः सुदर्शनं-सम्यग्दर्शनं तस्याराधनां करोति ॥११७५॥
For Private and Personal Use Only