________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
सिरिपालोऽवि हु राया, भत्तीए पिअयमाहिं संजुत्तो । पुबुत्तविहाणेणं, आराहइ सिद्धवरचक्कं ॥११६६॥ अह मयणसुंदरी भणइ नाह ! जइआ तए कया पुदि । सिरिसिद्धचक्कपूआ, तइआ नो आसि भूरि धणं ॥११६७॥ इण्हि च तुम्ह एसा, रज्जसिरी अत्थि वित्थरसमेआ। ता कुणह वित्थरेणं, नवपयपूअं जहिच्छाए ॥११६८॥ तं सोऊणं अइगरुअभत्तिसत्तीहिं संजुओ राया । अरिहंताइपयाणां, करेइ आराहणं एवं ॥११६९॥ नव चेईहरपडिमा, जिन्नुद्धाराइ विहिविहाणेणं । नाणाविहपूआहिं, अरिहंताराहणं कुणई ॥११७०॥
श्रीपालोऽपि राजा प्रियतमाभिः -नवराज्ञीभिः संयुक्तः-सहितो भक्त्या पूर्वोक्तविधानेन-पूर्वभणितविधिना सिद्धवरचक्रमाराधयति ॥ ११६६॥ अथ मदनसुन्दरी नृपं भणति- हे नाथ ! यदा त्वया पूर्वं श्रीसिद्धचक्रस्य पूजा कृता तदा भूरिप्रचुरं धनं नो आसीत् ॥११६७॥ इदानीं च-साम्प्रतं पुनर्युष्माकमेषा राज्यश्रीः-राज्यलक्ष्मीर्विस्तारेण समेता-युक्ता अस्ति, तत्-तस्मात् कारणात् यथेच्छया विस्तारेण नवपदपूजां कुरुत ॥११६८॥ तद्राज्ञीवचनं श्रुत्वाऽतिगुरुके अतिमहत्यौ ये भक्तिशक्ती ताभ्यां संयुतः-सहितो राजा एवं-वक्ष्यमाणप्रकारेण अर्हदादिपदानामाराधनां करोति ॥११६९॥ तथाहि-नव चैत्यगृहाणि- नवसङ्ख्यानि जिनगृहाणि, नव प्रतिमाः, नव जीर्णोद्धारा इत्यादिना विधिना विधान-निर्मापणं तेन, तथा नानाविधा-अनेकप्रकारा याः पूजास्ताभिरर्हतः-अर्हत्पदस्याराधनां करोति ॥ ११७०॥
For Private and Personal Use Only