________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
पभणेइ अ मे भयवं!, संपइ चरणस्स नत्थि सामत्थं । तो काऊण पसायं, मह उचिअं दिसह करणिज्जं ॥११६१॥ तो भणइ मुणिवरिंदो, नरवर ! जाणेसु निच्छयं एयं । भोगफलकम्मवसओ, इत्थ भवे नत्थि तुह चरणं ॥११६२॥ किंतु तुमं एआई, अरिहंताई नवावि सुपयाई । आराहतो सम्मं, नवमं सग्गंपि पाविहिसि ॥११६३॥ तत्तोवि उत्तरुत्तर-नरसुरसुक्खाई अणुहवंतो अ। नवमे भवंमि मुक्खं, सासयसुक्खं धुवं लहसि ॥११६४॥ तं सोऊणं राया, साणंदो निअगिहमि संपत्तो । मुणिनाहोऽवि अ तत्तो, पत्तो अन्नत्थ विहरंतो ॥११६५॥
च - पुनः नृपः प्रभणति-कथयति, हे भगवन् ! सम्प्रति-अधुना मे -मम चरणस्य-चारित्रस्य सामर्थ्यं नास्ति, तत्तस्मात्कारणात् प्रसादं कृत्वा ममोचितं-मम योग्यं करणीयं-कर्त्तव्यं दिश-कथय ॥११६१॥ ततो मुनिवरेन्द्रो भणतिहे नरवर ! एतं निश्चयं जानीष्व भोगः फलं येषां तानि भोगफलानि यानि कर्माणि तेषां वशतोऽत्र-अस्मिन् भवे तव चरणंचारित्रं नास्ति ॥११६२॥ किन्तु त्वमेतानि अर्हदादीनि नवापि सुष्ठु शोभनानि पदानि सम्यक् आराधयन् नवमं स्वर्गम्आनतारख्यमपि प्रास्यसि ॥११६३॥ च - पुनः ततः-तस्मादपि देवलोकात् उत्तरोत्तराणि-अधिकाधिकानि नरसुरसुखानि अनुभवन्-भुजानस्त्वं नवमे भवे धुवं-निश्चितं मोक्षं लभसे-प्राप्यसीत्यर्थः, कीदृशं मोक्षं ?-शाश्वतं-नित्यं सौख्यं यत्र स तथा तम् ॥११६४॥ तन्मुनिवचनं श्रुत्वा राजा श्रीपालः सानन्दः-आनन्दसहितः सन् निजगृहे सम्प्राप्तः, तदनन्तरं मुनिनाथोमुनीन्द्रोऽपि विचरन् अन्यत्र-अन्यस्मिन्नगरादौ प्राप्तः ॥११६५॥
For Private and Personal Use Only