________________
Shri Mahavir Jain Aradhana Kendra
सि
रि
सि
रि
वा
ल
क
हा
२५९
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीहो य घायविहुरो, पालित्ता मासमणसणं दिक्खं । जाओऽहमजिअसेणो, बालत्ते तुज्झ रज्जहरो ॥११५६॥ चिअ वेरेणं, बद्धोऽहं राणएहिं एएहिं । पुव्वकयब्भासेणं, जाओ मे चरणपरिणामो ॥ ११५७॥ सुहपरिणामेण मए, जाई सरिऊण संजमो गहिओ । सोऽहं उप्पन्नावहिनाणो नरनाह ! इह पत्तो ॥ ११५८॥ एवं जं जेण जहा, जारिसं कम्मं कयं सुहं असुहं । तं तस्स तहा तारिसमुवट्ठिअं मुणसु इत्थ भवे ॥११५९॥ तं सोऊणं सिरिपालनरवरो चिंतए सचित्तंमि । अहह अहो केरिसयं, एअं भवनाडयसरूवं ? ॥ ११६०॥
सिंहश्च नृपो घातैः प्रहारैर्विधुरः- पीडितः सन् एकं मासं यावत् अनशनाम्-अनशनयुक्तां दीक्षां पालित्वाऽहमजितसेनो जातोऽस्मि, कीदृशोऽहं ? - बालत्वे तव राज्यहरः ॥ ११५६ ॥ तेनैव वैरेण एतै राणाख्यैः अहं बद्धो-निगडितः, पूर्वं कृतो योऽभ्यासो-दीक्षाभ्यासस्तेन मे मम चरणपरिणामः- चारित्रपरिणामो जातः ॥११५७॥ मया शुभपरिणामेन जातिं - पूर्वजन्म स्मृत्वा संयमो गृहीतः, हे नरनाथ !- हे राजन् ! उत्पन्नमवधिज्ञानं यस्य स तथाभूतः सोऽहमिह प्राप्तः ॥ ११५८॥ एवंअमुना प्रकारेण येन प्राणिना यत् शुभमशुभं यादृशं कर्म यथा कृतं तस्य प्राणिनस्तत्तादृशं कर्म अत्र अस्मिन् भवे तथा न प्रकारेण उपस्थितं - समीपस्थं मुण- जानीहि ॥ ११५९ ॥ श्रीपालो नाम नरवरो- राजा तन्मुनिवचनं श्रुत्वा स्वचित्ते चिन्तयतिअहहेति खेदे, अहो इत्याश्चर्ये, एतद् भवनाटकस्य स्वरूपं कीदृशं वर्तते ?, अतिविषममिति भावः ॥ ११६०॥
For Private and Personal Use Only